________________
HDSANERS
अथ 'अक्खर सण्णी सम्म' इत्यादिनियुक्तिगाथाक्रममाश्रित्य सम्यकश्रुतं, तत्मतिपक्षयूतं मिथ्याश्रुतं चाहविशेषा.
अंगा-णंगपविढं सम्मसुयं लोइयं तु मिच्छसुयं । आसज्ज उ सामित्तं लोइय-लोउत्तरे भयणा ॥५२७॥ ॥२८॥
इहाङ्गप्रविष्टमाचारादि श्रुतं, अनङ्गप्रविष्टं त्वावश्यकादि श्रुतम् , एतद्वितयमपि स्वामिचिन्तानिरपेक्षं स्वभावेन सम्यक् श्रुतम् , लौकिकं तु भारतादि प्रकृत्या मिथ्याश्रुतम् । स्वामित्वमासाद्य खामित्वचिन्तायां पुनलौकिके भारतादौ, लोकोत्तरे चाऽऽचारादौ भजना
विकल्पनाऽवसेया, सम्यग्दृष्टिपरिगृहीतं भारताद्यपि सम्यक्श्रुतं, सावद्यभाषित्व-भवहेतुत्वादियथावस्थिततत्त्वखरूपबोधतो विषयEx विभागेन योजना : मिथ्यादृष्टिपरिगृहीतं त्वाचाराद्यपि मिथ्याश्रुतं, अयथावस्थितबोधतो वैपरीत्येन योजनादिति भावार्थ इति ॥५२७।।
सम्यक्त्वपरिगृहीतं सर्व भारताद्यपि सम्यक्श्रुतमिति यदुक्तम् , तथा तच्च सम्यक्त्वं पञ्चधा भवति- औपशमिकं, साखादनं, क्षयोपशमजं, वेदक, क्षायिकं च, इत्येतदुभयमपि दर्शयन्नाह
सम्मत्तपरिगहियं सम्मसुयं, तं च पंचहा सम्म । ओवसमियं सासाणं खयसमजं वेययं खइयं ॥ ५२८ ॥
गताथैव, नवरमुपशमनमुपशमः- मिथ्यात्वमोहनीये कर्मण्युदीर्णे क्षीणे शेषस्याऽनुदयावस्थापादनमित्यर्थः; तस्मादुपशमात् , तेन वा निर्वृत्तमौपशमिकम् । 'सासाणं ति' निरुक्तविधिना वर्णलोपोत्र द्रष्टव्यः। ततश्च सहेपत्तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनं सम्यक्त्वं, अद्यापि मिथ्यात्वोदयाभावादनन्तानुवन्ध्युदयकलुषिततत्त्वश्रद्धानरसास्वादमात्रान्वितमित्यर्थः, अथवा, आ समन्तात् शातयति मुक्तिमार्गाद् भ्रंशयति आशातनम्- अनन्तानुवन्धिकषायवेदनम् , सहाऽऽशातनेन वर्तत इति साशातनं सम्यक्त्वमिति । मिथ्यात्वमोहनीयस्योदीर्णस्य क्षयः, अनुदीर्णस्य तूपशमः, ताभ्यां निवृत्तं क्षायोपशामिकं सम्यक्त्वम् । विहितपायदर्शनसप्तकक्षयेण जन्तुना वेद्यते चरमतत्पुद्गलग्रासमानं यत्र तद् वेदकम् । दर्शनसप्तकस्य क्षयेण निर्वृत्तं क्षायिकम् । एष तावत् संक्षेपार्थः ।। ५२८ ॥ विस्तरार्थं त्वभिधित्सुर्भाष्यकार एवौपशमिकं सम्यक्त्वं तावदाहउवसामगसेढीगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ॥५२९॥
॥२८३॥
१ गाथा ४५४ । २ अङ्गा-उनङ्गप्रविष्टं सम्यक्श्रुतं, लौकिक तु मिथ्याश्रुतम् । आसाय तु स्वामित्वं लौकिक-लोकोत्तरयोजना ॥ ५२७ ॥
३ सम्यक्त्वपरिगृहीतं सम्यक्थुतं, तच्च पञ्चधा सम्यक् । औपशमिक सास्वादनं क्षयशमजं वेदक क्षायिकम् ॥ ५२८ ॥ ४ क. ग. 'खईयं'। ५ उपशमकश्रेणिगतस्य भवत्योपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुओऽक्षपितमिथ्यः (थ्यात्वः ) लभते सम्यक् ( त्वम् ) ॥ ५२९॥
Jan Education interna
For Personal and Private Use Only
www.jainelibrary.org