________________
विशेषा०
बृहदृत्तिः ।
SropeNCORRH
॥२८२॥
केन्द्रियाणामाहार-क्रोधादिका संज्ञा दशविधा समये प्रोक्ता, तत्कथमेकैबोहसंज्ञाऽत्रैषामुक्ता ? । सत्यम् , वल्ल्यादिष्वियं व्यक्तैवोपलभ्यते किञ्चिदिति शेषोपलवणार्थमेपैव निर्दिष्टा, इत्यलं प्रसङ्गेनेति । द्वि-त्रि-चतुरिन्द्रिय-सम्मूर्छनजपञ्चेन्द्रियाणां तु हेतुवादसंज्ञा प्राप्यते । देवनारकाणां गर्भजतिर्यड्-मनुष्याणां च कालिकी संज्ञेति । दृष्टिवादोपदेशेन च्छमस्थजन्तूनां सम्यग्दृष्टीनामेव संज्ञा प्राप्यते । ततश्च 'तेषां यच्छूतज्ञानं तत् संज्ञिश्रुतं भवति' इत्यध्याहारः । एवं च सति स्मरण-चिन्तादिमति-श्रुतव्यापाररहिता भवस्थाः, 'सिद्धिं गताश्च केवलिन एव संज्ञातीताः संज्ञारहिताः, शेषजन्तूनां केषांचित् कस्याश्चित् संज्ञाया उक्तत्वादिति भाव इति ॥ ५२३ ॥ ५२४ ॥ अत्राह परः
मोत्तूण हेउ-कालिय-सम्मत्तकमं जहुत्तरविसुद्ध । किं कालिओवएसो कीरइ आईए सुत्तम्मि ? ॥ ५२५ ॥
नन्वविशुद्धत्वात् प्रथमं हेतुवादसंज्ञा, ततो विशुद्धत्वात् कालिकसंज्ञा, ततोऽपि विशुद्धतरत्वाद् दृष्टिवादसंज्ञा; इत्येव यथोत्तरविशुद्धममुं क्रम मुक्त्वा किं कालिकसज्ञोपदेश आदी प्रथम मूत्रे नन्दिलक्षणे क्रियते । तथा च भवताऽपि तदनुरोधेन पूर्वमुक्तम्- 'सा सण्णा होइ तिहा कालिय-हेउ-दिविवाओवएसेण' इति ।। ५२५ ॥ अत्रोत्तरमाह
सण्णि त्ति असण्णि त्ति य सव्वसुए कालिओवएसेणें । पायं संववहारो कीरइ तेणाईए स कओ ॥५२६॥ ___ इह सर्वस्मिन्नपि श्रुते आगमे योऽयं 'संज्ञा' इति व्यवहारः स सर्वोऽपि प्रायो बाहुल्येन कालिकोपदेशेनैव क्रियते । तेनाऽऽदौ स एव कालिकोपदेशः कृतः । इदमुक्तं भवति- यतः स्मरण-चिन्तादिदीर्घकालिकज्ञानसहितः समनस्कपश्चेन्द्रियः संज्ञीत्यागमे व्यवह्रियते, असंज्ञी तु प्रसह्यप्रतिषेधमाश्रित्य यद्यप्येकेन्द्रियादिरपि लभ्यते, तथापि समनस्कसंज्ञी तावत् पञ्चेन्द्रिय एव भवति । ततः पर्युदासाश्रयणादसंज्यप्यमनस्कसम्मूर्छनजपञ्चेन्द्रिय एवाऽऽगमे प्रायो व्यवहियते । तदेवंभूतः संज्ञा-संझिव्यवहारो दीर्घकालिकोपदेशेनैवोपपद्यते । अतः प्रथम स एव सूत्र, तदनुरोधेनाज च निर्दिष्टः ।। इति त्रयोविंशतिगाथार्थः॥ ५२६ ॥
॥ इति संज्य-संज्ञिश्रुतं समाप्तमिति ॥ १ घ. छ, 'सिद्धिग' । २ मुक्त्वा हेतु-कालिक-सम्यक्त्वक्रम यथोत्तरविशुद्धम् । किं कालिकोपदेशः क्रियत आदी सूत्रे ? ॥ ५२५ ॥ ३ गाथा ५०४ । ४. संज्ञीति, असंज्ञीति च सर्वश्रुते कालिकोपदेशेन । प्रायः संव्यवहारः क्रियते तेनादौ स कृतः ॥ ५२६ ॥
॥२८२॥
Jan Education in
For Dev
enty