________________
SEEHPCSCORE
PIgar
सदसदविसेसणाओ भवहेउजदिच्छिओवलंभाओ। नाणफलाभावाओ मिच्छदिहिस्स अण्णाणं ॥ ५२१ ॥ विशेषा०
प्राग व्याख्याताथैव ॥ ५२१ ॥
आह- ननु देव-नारक-गर्भजतियङ्-मनुष्यलक्षणो मिथ्यादृष्टिदीर्घकालिकी संज्ञामाश्रित्य दृष्टिवादोपदेशसंज्ञाविचारेऽपि संज्ञी ॥२८॥ कस्माद् नोच्यते ?, इत्याह
हो न हेऊए, हेउई न कालम्मि भण्णइ सण्णा । जह कुच्छियत्तणाओ, तह कालो दिठिवायम्मि॥५२२॥ यथा ऊहः पृथिव्यादीनां संबन्धिनी ओघमात्रसंज्ञेत्यर्थः, न 'हेऊए त्ति' हेतुवादसंज्ञायां विचार्यमाणायां कुत्सितत्वात् संज्ञा भण्यते, यथा वा 'कालम्मित्ति' दीर्घकालिकसंज्ञायां विचार्यमाणायांकुत्सितत्वेन हैतुकी संज्ञा न भण्यते, तथा 'कालो त्ति' दीर्घकालिक्यपि RO संज्ञा दृष्टिवादोपदेशसंज्ञायां विचार्यमाणायां कुत्सितत्वादेव संज्ञा न भण्यते । अतो नेह देवादिरपि मिथ्यादृष्टिः संज्ञीति भावः ॥५२२॥
तदेवं दीर्घकालिक-हेतुवाद-दृष्टिवादोपदेशेन त्रिविधा संज्ञां निरूप्य, अर्थतासां मध्ये कस्य जन्तोः का भवति ?, इति निरूपयितुमाह
पंचण्हमूहसंण्णा हेउसण्णा बेइंदियाईणं । सुर-नारय-गब्भुब्भवजीवाणं कालिगी सण्णा ॥ ५२३ ॥
छउमत्थाणं सण्णा सम्मदिट्ठीण होइ सुयनाणं । मइवावारविमुक्का सण्णाईआ उ केवलिणो ॥ ५२४ ॥
पञ्चानां पृथिव्य-प्-तेजो-चायु-वनस्पतीनामूहसंज्ञा वृत्त्यारोहणाद्यभिप्रायरूपौघसंज्ञा भवति । आह- ननु त्रिविधसंज्ञामध्येऽत्रेयमूहसंज्ञा नोक्तैव, अत एवैकेन्द्रिया इह सर्वथैवाऽसंज्ञिन एव, तुच्छत्वात् कुत्सितत्वाञ्च तत्संज्ञायाः, इति भवतैवोक्तमेव प्राक्, तत्कथमत्र स्वामित्वप्ररूपणायामियमेतेषां संज्ञा प्रोक्ता । सत्यम् , किन्त्वेकेन्द्रियाणामेवोहसंज्ञा भवति, न तु हेतुवादादिसंज्ञा, इत्येवमेतत्संज्ञात्रयनिषेधप्रधानोऽयं निर्देशो द्रष्टव्यो न तु विधिप्रधानः । एतस्याश्चोहसंज्ञाया यथा संज्ञात्वं तथा प्रागेवोक्तमिति । भवत्वेवम् , तथाऽप्ये
१ गाथा ११५ । २ अहो न हेतौ, हैतुकी न काले भण्यते संज्ञा । यथा कुत्सितत्वात्, तथा कालो रष्टिवादे ॥ ५२२ ॥ ३ घ. छ. 'त्वादेव सं' । ४ प. 'लिकाऽपि' । ५ पञ्चानामूहसंज्ञा हेतुसंज्ञा द्वीन्द्रियादीनाम् । सुर-नारकनाभौजवजीवानां कालिकी संज्ञा ॥ ५२३॥
छवस्थानां संज्ञा सम्यग्दृष्टीनां भवति श्रुतज्ञानम् । मतिव्यापारविमुक्ताः संज्ञातीतास्तु केवलिनः ॥ ५२५ ॥
नालाय
||२८
JionEdum mernam
For Personal and Prevate Une Grey