SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥२८॥ शाने हि तस्य विशिष्टतराऽसौ प्राप्यते । ततस्तवृत्तिरप्यसौ किं नाङ्गीक्रियते, येनोच्यते- 'संते नाणे खउवसमियम्मि' इति । एतदाशङ्कय पूर्वमुत्तरमाह बृहदत्तिः । खयनाणी किं सण्णी न होइ होइ व खउवसमनाणी ? । सण्णा सरणमणागयचिंता य न सा जिणे जम्हा ॥५१॥ आवरणस्य सर्वथैव क्षयेण ज्ञानी क्षयज्ञानी, केवलीत्यर्थः, असौ सजी किमिति न भवति ?, किमर्थं च क्षायोपशमिकज्ञानी संझी भवतीति व्याख्यायते भवता । एवं परेणोक्ते सत्याह- 'सण्णेत्यादि' केवली संझी न भवति, यतोऽतीतार्थस्य स्मरणम्, अनागतस्य च चिन्तां संशोच्यते, सा च जिने केवलिनि नास्तीति, सर्वदा सर्वार्थावभासकत्वेन केवलिनां स्मरण-चिन्ताद्यतीतत्वात् । इति । क्षायोपशमिकज्ञान्येव सम्यग्दृष्टिः संज्ञीति ।। ५१८ ॥ पुनरपि प्रकारान्तरेणाऽऽह परः मिच्छो हिया-हियविभागनाणसण्णासमण्णिओ कोइ । दीसइ, सो किमसण्णी, सण्णा जमसोहणा तस्स ॥५१९॥ ननु मिथ्यादृष्टिरपि कश्चिदैहिकाद्यर्थविषयहिता-हितविभागज्ञानात्मकस्पष्टसंज्ञासमन्वित एव दृश्यते, ततः किमित्यसौ संज्ञी न भवति, येन दृष्टिवादोपदेशेनाऽयमसंज्ञी प्रोच्यते ? इति । गुरुराह- यद् यस्मादशोभना कुत्सिता तस्य मिथ्यादृष्टेः संज्ञा, तेन सत्याऽपि तयाऽयमसंज्ञीति ॥ ५१९ ।। . आह- ननु यद्यप्यशोभनाऽस्य संज्ञा, तथापि कथं तस्या अभावः १, इत्याह जैह दुव्वयणमवयणं कुच्छियसीलं असीलमसईए । भण्णइ तह नाणं पिहु मिच्छद्दिहिस्स अण्णाणं ॥५२०॥ __ यथा दुर्वचनं कुत्सितं वचनं सदप्यवचनं लोके भण्यते, असत्याश्च संबन्धि कुत्सितं शीलं विद्यमानमप्यशीलं यथाऽभिधीयते, तथा मिथ्यादृष्टज्ञानमपि मिथ्यादर्शनोदयपरिग्रहादज्ञानं बम्भण्यते, संज्ञाऽप्यसंज्ञोच्यत इत्यर्थः ।। ५२० ॥ कस्मात् पुनस्तस्य ज्ञानमप्यज्ञानं भवति ?, इत्याह, क्षयज्ञानी किं संज्ञी न भवति, भवति क्षयोपशमज्ञानी। संज्ञा स्मरणमनागतचिन्ता च न सा जिने यस्मात् ॥ ५१८॥२ क. ग. 'न्ता संज्ञानं सं'। ३ मिथ्यो ( मिथ्यादृष्टिः) हिता-ऽहितविभागज्ञानसंज्ञासमन्वितः कोऽपि । रक्यते, स किमसंज्ञी, संज्ञा यदशोभना तस्य ॥ ५९॥ ४ यथा दुर्वचनमवचनं कुत्सितशीलमशीलमसत्याः । भण्यते तथा ज्ञानमपि खलु मिथ्यादृष्टेरज्ञानम् ॥ ५२०॥ A २८०॥ For Personal P e ny
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy