Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
॥२७३॥
Jain Educationa Internation
hi पुनरसौ सर्वजधन्योऽक्षरानन्तभागः प्राप्यते १, इत्याह
थीणद्धिसहियनाणावरणोदयओ स पत्थिवाईणं । बेइंदियाइयाणं परिवडेढए कमविसोहीए ॥ ४९९ ॥ स्त्यानर्धिमहानिद्रोदयसहितोत्कृष्टज्ञानावरणोदयादसौ सर्वजघन्योऽक्षरानन्तभागः पृथिव्याद्येकेन्द्रियाणां प्राप्यते । ततः क्रमविशुद्धया द्वीन्द्रियादीनामसौ क्रमेण वर्धत इति ॥। ४९९ ।।
तर्द्युत्कृष्टः, मध्यमचैष केषां मन्तव्यः १, इत्याह
कोसो उक्कोस सुयणाणविओ, तओवसेसाणं । होइ विमज्झो मज्झे छट्टाणगयाण पाएण ॥ ५०० ॥
वाक्षरानन्तभाग उत्कृष्टो भवत्युत्कृष्टश्रुतज्ञानविदः संपूर्ण श्रुतज्ञानस्येत्यर्थः । अत्राह - नन्वस्य कथमक्षरानन्तभागः, यावता श्रुतज्ञानाक्षरं संपूर्णमप्यस्य प्राप्यत एव । सत्यम्, किन्तु संलुलितसामान्यश्रुत - केवलाक्षर पेक्षयैवाऽस्याक्षरानन्तभागो विवक्षितः “केवलिवज्जाणं तिविहभेओ वि' इत्यनन्तरवचनात्, अन्यथा हि यथा केवलिनः संपूर्णकेवलाक्षरयुक्तत्वेनाऽक्षरानन्तभागस्त्रिवि घोsपि न संभवति, इति तद्वर्जनं कृतम्, एवं संपूर्ण श्रुतज्ञानिनोऽपि समस्त श्रुताक्षरयुक्तत्वेनाऽङ्गरानन्तभागस्त्रिविधोऽपि न संभवतीति तद्वर्जनमपि कृतं स्यात् । तस्मादसंमिलितसामान्याक्षरापेक्षयैवाऽस्य (ऽक्षरानन्तभागः प्रोक्तः । सामान्ये चाऽक्षरे विवक्षिते केवलाक्षरापेक्षया श्रुतज्ञानाक्षरस्य संपूर्णऽप्यनन्तभागवर्तित्वं युक्तमेव केवलज्ञानस्व पर्यायेभ्यः श्रुतज्ञानस्वपर्यायाणामनन्तभागवर्तित्वात् तस्य परोक्षविषयत्वेनाऽस्पष्टृत्वाच्चेति । यच्च समुदितस्व-परपर्यायापेक्षया श्रुत- केवलाक्षरयोस्तुल्यत्वं तदिह न विवक्षितमेवेति ।
.6
अन्ये तु - 'सो पुण सव्वजहन्नो चेयण्णं' इत्यादिगाथायां स पुनरक्षरलाभः " इति व्याचक्षते । इदं चानेकदोषान्वितत्वात्, जिन भद्रगणिक्षमाश्रमणपूज्यटीकायां चादर्शनादसंगतमेव लक्षात तथाहि - ' तेस्स उ अनंतभागो निच्चुग्घाडो ' इत्यायनन्तरगाथायामक्षरानन्तनाग एवं महुतः, अक्षरलाभस्त्वनन्तरपरामर्शिना तच्छब्देन कुतो लब्धः १, किमाकाशात् पतितः । किञ्च यद्यक्षरलाभ इतीह व्यायते तर्हि 'केवलिवजाणं तिविहभेओ वि ' इत्यत्र किमिति केवलिनो वर्जनं कृतम् । यथा हि श्रुताक्षरमाश्रित्यो
३५
१ स्थानसहितज्ञानावरणोदयतः स पृथिव्यादीनाम् । द्वीन्द्रियादिकानां परिवर्धते क्रमविशुद्धया ॥ ४९९ ।। २ घ. छ. 'टूट क ३ उत्कृष्ट उत्कृष्टश्रुतज्ञानविदः, ततोऽयशेषाणाम् । भवति विमध्यो मध्ये पद्स्थानगतानां प्रायेण ॥ ५०० ॥
४ घ. छ. झ. 'ओ विसे। ५ गाथा ४९७ । ६क. 'स्पाइन' | ७ गाथा ४९८ ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥२७३॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202