Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 64
________________ बृहद्वात्तिः। विशेषा० ॥२६२॥ सहस्रम् । तत्रैकस्याऽकारपदार्थस्य सर्वद्रव्यगतलक्षपर्यायराशिमध्यादस्तित्वेन संबद्धाः किल शतप्रमाणाः स्वपर्यायाः, शेषास्तु नास्तित्वेन संबद्धाः सर्वेऽपि परपर्यायाः । एवमिकारादेः, परमाणु-यणुकादेश्चैकैकद्रव्यस्य वाच्यमिति ॥ ४७७ ॥ आह- के पुनः वपर्यायाः, के च परपर्यायाः ?, इत्याह 'जे लभइ केवलो से सवन्नसहिओ व पज्जवेऽयारो । ते तस्स सपज्जाया सेसा परपज्जया सव्वे ॥४७८॥ यानुदात्ता-ऽनुदात्त-सानुनासिक-निरनुनासिकादीनात्मगतान् पर्यायान् केवलोऽन्यवर्णेनाऽसंयुक्तः, अन्यवर्णसंयुक्तो वाऽकारो लभतेऽनुभवति ते तस्य स्वपर्यायाः प्रोच्यन्ते, अस्तित्वेन संबद्धत्वात् , ते चाऽनन्ताः, तद्वाच्यस्य विष्णु-परमाण्वादिद्रव्यस्याऽनन्तत्वात् , तद्व्यप्रतिपादनशक्तेश्चाऽस्य भिन्नत्वात् , अन्यथा तत्प्रतिपाद्यस्य सर्वस्याऽप्येकत्वप्रसङ्गात् , एकरूपवर्णवाच्यत्वात् । शेषास्त्विकारादिसंबन्धिनः, घटादिगताश्चाऽस्य परपर्यायाः, तेभ्यो व्यावृत्तत्वेन नास्तित्वेन संबन्धात् । एवमिकारादीनामपि भावनीयम् , अक्षरविचारस्यैवेह प्रक्रान्तत्वात् ॥ ४७८ ॥ ___ एकैकमक्षरं सर्वद्रव्य-पर्यायराशिमानमुच्यते, अन्यथाऽन्येषामपि परमाणु-यणुक-घटादिद्रव्याणामिदमेव पर्यायमानं द्रष्टव्यमिति । एवमुक्ते सति परः प्राह जइ ते परपज्जाया न तरस, अह तरस, न परपज्जाया । जं तम्मि असंबद्धा तो परपज्जायववएसो ॥४७९॥ इह स्वपर्यायाणामेव तत्पर्यायता युक्ता, ये त्वमी परपर्यायास्ते यदि घटादीनां, तर्हि नाक्षरस्य । अथाऽक्षरस्य ते, तर्हि न घटादीनाम् । ततश्च यदि परस्य पर्यायाः तर्हि तस्य कथम् ?; तस्य चेत् , परस्य कथम् ? इति विरोधः । तदयुक्तम् , अभिप्रायाऽपरिज्ञानात् , यस्मात् कारणात् तस्मिन्नकारे-काराद्यक्षरे घटादिपर्याया अस्तित्वेनाऽसंबद्धाः, ततस्तेषां परपर्यायव्यपदेशः, अन्यथा च्यावृत्तेन रूपेण तेऽपि संबद्धा एन, इत्यतस्तेषामपि व्यावृत्तरूपतया पारमार्थिक स्वपर्यायत्वं न विरुध्यते । अस्तित्वेन तु घटादिपर्याया घटादिष्वेव संबद्धाः, इत्यक्षरस्य ते परपर्याया व्यपदिश्यन्त इति भावः । द्विविधं हि वस्तुनः स्वरूपम्- अस्तित्वं नास्तित्वं च । ततो ये यत्राऽस्तित्वेन प्रतिबद्धास्ते तस्य स्वपर्याया उच्यन्ते, ये तु यत्र नास्तित्वेन संबद्धास्ते तस्य परपर्यायाः याँलभते केवलस्तस्य सवर्णसहितो वा पर्यवानकारः । ते तस्य स्वपर्यायाः शेषाः परपर्ययाः सर्वे ॥ ४७८॥ २ यदि ते परपर्याया न तस्य, अथ तस्य, न परपर्यायाः। यत् तस्मिन्नसंबद्धास्ततः परपर्यायव्यपदेशः ॥ ४७९॥ ॥२६२॥ For Peso Private Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202