Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रितप्रकरणम् ४. स्वरः प्रदीप्तःकलहं ब्रवीति प्रदेशदीप्तःशकुनस्तु युद्धम् ॥बवोति यात्रांनिजदेशमुज्झन्स्वदेशशायी कथयत्ययात्राम३५॥ एवंप्रकाराः शकुना नराणां शांताः पुनर्जाप्यफला भवंति ॥ ते भक्षयंतोऽशनमिष्टसिद्धिं कुर्वत्यसिद्धिं पुनरुद्विरंतः ॥३६॥ तृणं फलं खादति यः म सौम्योरौद्रः पुरीषामिपखादको य॥ शान्तः प्रदीप्तं विदधाति कार्यमन्त्राशनः स्यादुभयप्रकारः३७॥
॥ टीका ॥
र्थः ॥ ३४॥ स्वर इति ॥ स्वरः प्रदीप्तः कलहं विग्रहं ब्रवीति कथयति।प्रदेशदीप्तः । अशुभस्थानस्थितः शकुनः युदं संग्राम ब्रवीति । निजदेशं स्वस्थानमुझंस्त्यजन् यात्रामन्यत्र गमनं ब्रवीति स्वदेशशायी स्वस्थान प्रति गच्छन् अयात्रानन्यत्र गमनाभावं कथयति ॥३५॥ एवंप्रकारा इति ॥ एवंप्रकाराः पूर्वोक्तप्रकाराः जनानां ये शकुनाः शांता उक्तास्त एव पुनः जाप्यफला इति जाप्यं फलं येषां ते तथा अधमफलाः प्रदीप्ता इत्यर्थः।शांता एवं स्थानादिमाहात्म्यादीप्ता भवतीत्यर्थः। यथा जलस्य वह्निसंयोगादौष्ण्यं जायते एतेन स्वारसिकं शकुनानां दीप्तत्वं नास्तीतिसूचितम्। अब चेष्टाविशेशकलविशेषं दर्शयन्नाह-त इतिाते शकुना अशनं भक्ष्यं भक्षयंतः इष्टसिद्धिं कुर्वन्ति पुनः उद्गिरंतः वमनं कुर्वन्तः असिद्धिं कुर्वन्ति ॥३६॥ तुणमिति ॥ तृणं फलं वा यः शकुन: खादति स शकुनः सौम्यः शांतः । यः
भाषा॥
पाषाण लावते मिले, और प्रदीप्त होय तो अकीर्ति होय ॥ ३४ ॥ स्वर इति ॥ प्रदीप्त स्वर होय तो कलह कराने और प्रदेशदीप्त शकुन होय अर्थत् अशुभस्थानमें स्थित शकुन होय तो संग्राम करावे स्वदेशकू त्याग कर यात्रा करावे अपनेस्थानकू पीछो आवतीसमय ये शकुन होय तो घरआये पीछे यात्रा नहीं करावे ॥ ३५ ॥ एवंप्रकारा इति ॥ या प्रकार मनुष्यनकू जे शांत शकुन कहै है तेही फिर शांतशकुनही स्थानादिकनके माहात्म्यतूं अधम फलके देवेबारे प्रदीप्त हो जाय है जैसे जलकुं अग्निके संयोगसू उष्णता होय है तैसेही जाननो और ते शकुन अन्नभक्षण करते हुये होयँ सो मनोरथकी सिद्धि करै और फिर वमन करतो मिलै तो कार्यकी असिद्धी करै ॥ ३६ ॥ तृणमिति ॥ जो शकुन तृण वा
For Private And Personal Use Only