Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षट्पदानां प्रकरणम्।
( ३९७) चतुष्पदानां शकुनप्रभावो यथावदित्थं कथितोऽथ सत्त्वाः॥ ये षट्पदायाः शकुनानि तेषामाश्चर्यरूपाणि निरूपयामः ॥१॥ श्रूयेत वामो यदि मंजुगुंजन्दृश्येत वा वामदिशं प्रसर्पन् ॥ आस्वादयन्वा कुसुमं प्रशस्तं शृंगस्तदा स्यात्सुमहान्प्रमोदः ॥ २ ॥ यो वृश्चिकः कोष्ठककारिकायः यो गुजरावश्च कुलीरसंज्ञः ॥ अत्रापरे सन्ति च षट्पदा ये यात्राम ते वामगताः प्रशस्ताः ॥३॥
॥ इति षट्पदाः॥ अष्टापदो यः शरभः प्रसिद्धो वामेन सर्पनिनदंश्च वामः॥ एकातपत्रं स ददाति राज्यं गतौ निवृत्तौ तु तदन्यरूपः॥४॥
॥ टीका ॥ चतुष्पदानामिति ॥ चतुष्पदानां पूर्वोक्तानां मया शकुनप्रभावः इत्थं पूर्वोतप्रकारेण यावत्कथितः । अथ ये षट्पदीयाः सत्त्वास्तेषां शकुनानि आश्चर्यरूपाणि वयं निरूपयामः॥१॥श्रूयेतेति। यदि ,गः मंजु मनाझं गुञ्जन्वामः श्रूयेत वामदिर्श प्रसर्पन्गच्छन्वा दृश्येत् । प्रशस्तं कुसुमं अस्वादयन्वा वामदिशं दृश्येत तदासुमहाप्रमोदः स्यात् ।। २ ॥ य इति ॥ यः वृश्चिकः कोष्ठककारिकायः यो गुंजारवश्च कुलीरसंज्ञः वृश्चिकजातीयजंतुविशेषः तथा अपरे च ये पदपदाः संति ते यात्राम वामगताः प्रशस्ताः शोभनाः ॥ ३ ॥
॥ इंति षट्पदाः ॥ अष्टापद इति ॥ यः शरभ अष्टापद इति प्रसिद्धः गतौ यात्रायां वामेन
॥ भाषा ॥ चतुष्पदानामिति ॥ घे चौपाये पशुनके शकुनको प्रभाव मैंने यथायोग्य पूर्वक कह्यो. अब भ्रमरानकू आदिलंकर जीव तिनके शकुन आश्चर्यरूप हैं उनें मैं वर्णन करूं हूं ॥ १ ॥ श्रूयतेति ॥ जो भ्रमर सुंदर गुंजार शब्द करतो हुयो वामभागमें श्रवण करे, वा वामदिशामें गमन करतो दीखे वा सुगंधवान् पुष्पको सूंघतो हुयो वामदिशामें दखि ते महान् हर्ष होय ॥२॥ य इति ॥ जो बीलू और कुलीर खेकड भी कहेहैं. करलें करक ये भी नाम है, और भ्रमरा ये सब यात्रानमें बांये शुभ हैं ॥ ३ ॥
॥इति षट्पदाः। ', अष्टापद इति ॥ आठ पांव जाके ऐसो शरभ जो यात्रामें बायो गमन करे और
For Private And Personal Use Only