Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५४) वसंतराजशाकुने-दशमो वर्गः।
अरण्यमध्ये व्रजतः पुरस्तायो रौति चाषः कलहावहोऽसौ ॥ केंकें तु दीप्तो निनदोऽस्य शांतः केके इतीहकुशलाय वामः ॥६॥ इति वसंतराजशाकुने विचारितोऽपराजितो नवमो वर्गः ॥९॥
॥ अथ खंजनः॥
त्वं योगयुक्तो मुनिपुत्रकस्त्वमदृश्यतामेषि शिखोद्गमेन ॥ विलोक्यसे प्रावृषि निर्गतायां त्वं खंजनाश्चर्यमयो नमस्ते ॥१॥
॥ टीका ॥ .. ध्वगानां विदेशे विजयः प्रदिष्टः ॥४॥ अरण्येति ॥अरण्यमध्ये व्रजतः पुंसः पुरस्तात् यश्चाषः रौति असौ कलहावहो भवति । अस्य केंकें इति निनादः सदा दीप्तो भवति । अस्य शांतः केके इति ईदृक् निनादयुक्तः वामः कुशलाय भवति ॥ ५ ॥ इतीति ॥ वसंतराजशाकुनेऽपराजितो विचारितः अन्यानि विशेषणानि पूर्ववत् ॥
इति श्रीशत्रुजयकरमोचनादिमुकृतकारिमहोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीकायामपराजितसंज्ञको नाम नवमो वर्गः ॥९॥
त्वमिति ॥ हे खंजन त्वं मुनिपुत्रकः असि । कीदृक् योगयुक्तः त्वं शिखोद्गमेन अदृश्यतामपि । प्रावृषि निर्गतायां त्वं विलोक्यसेशिखीगाश्चर्यमयः अतस्ते तुभ्यं
॥ भाषा॥ तो मार्गीपुरुषकं विदेशमें विजय कहनो ॥ ४ ॥ अरण्यति ॥ अनके मध्यमें गमन करे जा पुरुषके अगाडी जो रुदन करे तो कलहकं प्राप्त करे. और याको केंकें या प्रकार जो शब्द होय तो दीप्तस्वर जाननो. और केके या प्रकार जो स्वर करे सो शांत जाननो. यह शांतस्वर वामभागमें होय तो कुशलके अर्थ जाननो ॥ ५ ॥
इति श्रीजटाशंकरपुत्रज्योतिर्विच्छीधरविरचितायां वसंतराजभाषाटीकायां अपराजितसंज्ञिको नाम नवमो वर्गः ॥९॥
॥ अथ खंजनः॥ त्वमिति ॥ हे खंजन ! तुम मुनिपुत्र हो और योगकरके युक्त हो. और शिखा तुम्हारे प्रगट होय है. तब तुम अदृश्य होय जाओ हो. और वर्षाऋतु जब निकस जाय है तब तुम आश्चर्यमय दीखो हो. याते तुम्हारे अर्थ नमस्कार हो. खंजनके नाम खंजरीट खज
For Private And Personal Use Only