Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काकरुते दिक्प्रकरणे प्रथमप्रहरे शुभाशुभफलम् । (२७१ ) दिशीशवत्यां यदि रौति काकः आगच्छतस्तद्वनितांत्यजाती व्याधेर्निमित्तं प्रियवस्तुलाभो भवेत्तथा रोगवतोऽवसानम् ॥ ||२०|| ब्रह्मप्रदेशे स्थितवायसस्य प्रभातकाले मधुरस्वरेण ॥ अभीप्सितस्यागमनं ध्रुवं स्यात्स्वामिप्रसादो द्रविणस्य
लाभः ॥ २१ ॥
इति श्रीवसंतराजशाकुने काकरुते दिक्चक्रप्रकरणे सूर्योदयफलं समाप्तम् ॥ १ ॥
प्राच्यां च यामे प्रथमे सुशब्दः काको भवेञ्चितितकार्यसियै ॥ अभीष्ट लोकागमनं यथा स्यादिष्टार्थलाभो नियतं नराणाम् ॥ २२ ॥
॥ टीका ॥
दारिद्र्यं नष्टधनेष्वलाभं च करोतीति शेषः ॥ १९ ॥ दिशीति ॥ यदि ईशवत्यां दिशि प्रभाते काकः रौति तदा वनितांत्यजाती आगच्छतः किमर्थं व्याधेर्निमित्तं प्रियवस्तुलाभो भवेत् तथा रोगवतः अवसानं मरणं स्यात् ॥ २० ॥ ब्रह्मप्रदेश इति ॥ ब्रह्मप्रदेशे आकाशमध्ये तत्र स्थितस्य वायसस्य मधुरस्वरेण अभीप्सिता*यागमनं ध्रुवं स्यात् तथा स्वामिप्रसादः द्रविणस्य च लाभो भवति ॥ २१ ॥ इति शत्रुंजयकर मोचनादिमुकृतकारि महोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीकायां काकरुते दिक्चक्रप्रकरणे सूर्योदयफलं समाप्तम् ॥ १ ॥
प्राच्यामिति ॥ प्राच्यां पूर्वस्यां च प्रथमे यामे सुशब्दः काकः चिंतितकार्यसिद्ध भवेत् तथाऽभीष्टलोकागमनं स्यात् नियतं नराणामिष्टार्थलाभः स्यात् २२॥
।। भाषा ॥
नष्टधनको लाभ न करें ॥ १९ ॥ दिशीति ॥ जो ईशान दिशामें काक बोले तो व्याधिकें निमित्त कोई स्त्री या अन्त्यज जाति आवे और प्रिय वस्तुको लाभ होय और रोगोकी तो मरण होय ॥ २० ॥ ब्रह्मप्रदेश इति ॥ आकाशमें स्थित काक मधुर शब्द बोलै तो वांछितको आगमन होय और स्वामीको अनुग्रह होय और धनको लाभ होय ॥ २१ ॥
इति श्रीवसंतराजभाषाटीकायां काकरुते दिक्चक्रप्रकरणे सूर्योदयफलम् ॥ १ ॥ प्राच्यामिति ॥ पूर्वदिशा में जो काक प्रथम प्रहरमें सुन्दर बोलै तो चिंतित कार्यकी सिद्धि करै. वांछित लोकको आगमन होय निश्चय मनुष्यनको वांछित अर्थको लाभ होय ॥ २२ ॥
For Private And Personal Use Only