Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिंगलारुते धेन्वादिफलप्रकरणम् ।
( ३३७ )
फलं समस्तं भवने स्वकीये भवेत्तथा मित्रगृहे फलार्धम् ॥ फलस्य नाशो रिपुमंदिरेषु जातैर्निनादैर्वसुधादिसंज्ञैः ॥ ४८ ॥ इति पिंगलारुते स्वरबलप्रकरणम् ॥ ३ ॥
धेनुर्गर्भो वंध्य इत्यत्र तिस्रः प्रख्याप्यते कालभेदेन संज्ञाः ॥ पिंगोक्तानां पार्थिवादिस्वराणामाख्यास्यामश्चार्थसंज्ञाफलानि ॥ ४९ ॥ स्यात्पार्थिवः पूर्वक कुब्विभागे धेनुर्दिनादौ प्रहरद्वये च ॥ स एव गर्भः प्रहरे तृतीये वंध्यः स एव प्रहरे चतुथ ॥ ५० ॥
॥ टीका
सौहृदवैरिभावो मध्यस्थितिश्च स्वराणामभ्युदिता ॥ ४७ ॥ फलमिति ॥ वसुधादि संज्ञैर्निनादैः स्वकीये भवने समस्त फलं भवति तथा मित्रगृहे फलार्थं भवति रिपुमं दिरे फलस्य नाशो भवति ॥ ४८ ॥
इति वसंतराजटीकायां पिंगलारुते स्वरवलप्रकरणम् ॥ ३ ॥
धेनुरिति ॥ पूर्वोक्तानां पार्थिवादिस्वराणां धेनुः गर्भः वध्य इति तिस्रः सज्ञाः कालभेदेन प्रख्याप्यते ततस्तेषामर्थसंज्ञाफलान्याख्यास्यामः ॥ ४९ ॥ स्यादिति ॥ पूर्वककुब्विभागे दिनादौ प्रहरद्वये च मध्यंदिने पार्थिवः स्वरो धेनुसंज्ञः स्यात् तथा तृतीये प्रहरे स एव पार्थिवो गर्भसंज्ञः स्यात् तथा चतुर्थे प्रहरे स एव
॥ भाषा ॥
भाव कहे हैं ॥ ४७ ॥ फलमिति ॥ पार्थिवकूं आदि लेकर जे नाद तिनकरके अपने वरमें तो समस्त फल देवे हैं, और मित्रके घरमें आधो फल होय. और शत्रुके घर में फलको नाश होय ॥ ४८ ॥
इति वसंतराजशाकुने भाषाटीकायां पिंगलारुते स्वरबलप्रकरणं तृतीयम् ॥ ३ ॥ ॥ धेनुरिति ॥ पिंगलके कहहुये जे पार्थिवादिक स्वर तिनकी धेनु, गर्भ, बंध्य ये तीनसंज्ञा कालभेद करके कहे हैं, और इनके अर्थ संज्ञा फल तिन्है क हैं ॥ ४९ ॥ स्यादिति ॥ पूर्वदिशा के विभाग में दिनकी आदिमें दोयप्रहर ताई पार्थिवस्वरकी धेनुसंज्ञा है और तृतीय प्रहर में पार्थिव शब्दकी गर्भसंज्ञा है और चतुर्थप्रहर में पार्थिवकी बंध्यसंज्ञा है ॥ ५० ॥
२२
For Private And Personal Use Only