Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काकरुते दिक्चक्रप्रकरणम् सूर्योदयः ।
( २६५ )
शब्देन सिद्धिर्लघुना प्रदिष्टा भयं भवेन्निष्ठुरजल्पितेन ॥ का यद्यमे सोमटिकां विहाय सत्यं कुतस्त्यं शकुनांतरेषु ॥ ११ ॥ वसंतराजशाकुने विचारिता करापिका ॥ इत्येकादशो वर्गः समाप्तः ॥ ११ ॥
अथेोच्यते काकरुतं रुतानां मूर्ध्नि स्थितं शाकुनभाषितानाम् । अचिंतितावेदितभूरिकार्य पूर्वादिकाष्टाप्रहरकमेण ॥ १ ॥
॥ टीका ॥
शब्द इति ॥ लघुना शब्देन सिद्धिः प्रदिष्टा कथिता निष्ठुरजल्पितेन भयं भवेकामे सोमटिकां विहाय शकुनांतरेषु सत्यं कुतस्त्यम् ॥ ११ ॥ इति वसंतराज इति ॥ वसंतराजशाकुने करापिका विचारिता अन्यानि विशेषणानि पूर्ववत् ॥ ११ ॥
इति श्रीशत्रुंजयकरमोचनादिसुकृतकारि महोपाध्यायश्रीभानुचन्द्रविरचितायां वसंतराजटीकायां करापिकासंज्ञकः एकादशी वर्गः समाप्तः ॥ ११ ॥
अथेति ॥ करा पिकारुतकथनानंतरं काकरुतमुच्यते कथ्यते कीदृशं शाकुनभापितानां रुतानां मूर्ध्नि स्थितं सर्वेभ्योऽप्यधिकमित्यर्थः पुनः कीदृशमचिन्तितावेदितभूरिकार्यमिति, अचिन्तितमावेदितं भूरिकार्य येन तत्तथा केन पूर्वादिकाष्ठामहर क्रमेणेति पूर्वादिकाः दिशः तासु प्रहरादिक्रमः प्रथमप्रहरे कीटक फलं द्वितीयप्रहरे
॥ भाषा ॥
अंगाडी और जेमनें मांउं करापिका शुभ जाननी और पीठपीछे विजयके अर्थ और वामा प्राणनाश करें. प्रयाणसमय में फिर पुरग्रामप्रवेशसमय में बामा शुभ फलकी देबेवारी जाननी ॥ १० ॥ शब्द इति || घुशब्द करे तो सिद्धि कहनो. कठोर शब्द करें तो भय होय. कार्यके उद्यममें या करापिकाकूं छोडकरके और शकुनमें सत्यता नहीं ॥ ११ ॥
॥ इति श्रीजटाशंकरपुत्र श्रीधरविरचितायां शकुनवसंतराजभाषाटीकायां कराPuerari नाम एकादशी वर्गः समाप्तः ॥ ११ ॥
अथेति ॥ करापिका के शब्द के अनंतर शकुनीनने कहे जे शब्द तिनके ऊपर संपूर्णते अधिक और बिना चितमन करे और जानोहुयो बहुतसो कार्य ताय पूर्वादिक दिशान में प्रहर प्रहर के क्रमकरके अर्थात् प्रथमप्रहर में कैसोफल द्वितीय प्रहर में कैसोफल
For Private And Personal Use Only