Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते शांतप्रकरणम् । (११३ ) एषां च मध्यात्कुकुबादिकानां जातेषु शांतेष्वधिकाधिकेषु॥ शुभं नराणामधिकाधिकं स्यात्तद्वत्प्रदीप्तेष्वशुभं प्रदिष्टम् ॥ ॥४९॥ एवंविधं शांतमथ प्रदीप्तं जानाति यः शाकुनिकः स एव ॥शान्तप्रदतिस्य च यो विशेषं न वेत्ति नो वेत्ति स किंचिदेव ॥५॥
इति पोदकीरुते शान्तप्रकरणं द्वितीयम् ॥२॥
॥ टीका॥
पुनः एतदेव पूर्वोक्तं सप्तप्रकारं विपरीतभावादीप्तं कथयति ॥ ४८ ॥ एषामिति ॥ एषां सप्तानां ककुबादिकानां मध्यादधिकाधिकेषु शांतेषु जातेषु तदा नराणामधिकं शुभं स्यात् । सप्तसु शांतेषु का गणना । तद्वत्यदीप्तेषु अधिकाधिकेषु जातेष्वशुभमधिक प्रदिष्टं कथयति ॥ ४९ ॥ एवंविधमिति ॥ एवंविधं पूर्वप्रतिपादितं शांतमंथ च प्रदीप्तं यो जानाति स एव शाकुनिकः शकुनज्ञाता । यः शांतप्रदीप्तस्य वि. शेषं न वेत्ति स न किंचिदेव वेत्ति किमपि न जानातीत्यर्थः ॥५०॥
इति श्रीमहोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीका
यां पोदकीरते द्वितीयं शांतप्रदीप्तं प्रकरणम् ॥ २॥
॥ भाषा॥
एषामिति ॥ ये दिक्कालादिक सात कहे इनके मध्यमें अधिक अधिक शांत शकुन होय तो मनुष्यनको अधिक शुभ होय, और जो ये सातोनमें प्रदीप्त अधिकाधिक होय तो अशुभ अधिक कहनो ॥ ४९ ॥ एवंविधमिति ॥ याप्रकार कहे जे शांत प्रदीप्त तिन जो जाने सोही शकुनी श्रेष्ठ है, और शांतप्रदीप्तके भेदकू नहीं जान है सो पुरुष कछुभी नहीं जानै है ॥ ५० ॥
इति श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधरविचितायां वसंतराजभाषाटी. . कायां पोदकीरते शांतप्रकरणं द्वितीयम् ॥२॥
For Private And Personal Use Only