Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७६ )
वसंतराजशाकुने - षष्ठो वर्गः ।
अभ्युपगच्छति यस्य यियासोः स्त्रीपुरुषोऽप्यथ वा फलहस्तः। सर्वसमीहितसिद्धिरवश्यं तस्य नरस्य भवत्यचिरेण ॥ ९ ॥ इति वसंतराजशाकुने नरेंगिते प्रथममालोकनप्रकरणम् ॥ १ ॥
॥ टीका ॥
च्छति कीदृग् धृतातपत्र इति धृतमातपत्रं छत्रं येनं स तथा । पुनः कीदृक्छुचिः पवित्रः पुनः कीदृक शुक्लवासाः श्वेतवस्त्रधारी पुनः कीदृक्पुष्पार्चित इति पुष्पादिभिरलंकृतः पुनः कीदृक चंदन चचितांग इति चंदनेन चर्चितमंगं यस्य स तथा । पुनः किंविशिष्टः निश्रावयुक्त इति निश्रावः भोजनार्थे तत्परिमितमात्रमन्त्रप्रदानं तेन युक्तः सहितः वाऽथवा कृतभोजन इति कृतं भोजनं येन स तथा । किं कुर्वन् पठन् ॥ ८॥ अभ्युपगच्छतीति ॥ यस्य यियासोः गन्तुकामस्य पुरुषस्य स्त्रीपुरुषः स्त्रिया युक्तः पुरुषः स्त्रीपुरुषः अभ्युपगच्छति सम्मुखमायाति अथ वा फलहस्तः केवलः पुमान् स्त्री. वा संमुखमायाति तस्य नरस्य अचिरेण सर्वसमीहितसिद्धिः सकलवांच्छित निष्पत्तिरवश्यं भवति । ग्रंथांतरे तु तपस्विनामादौ दर्शनं गच्छतां महत्फलप्रदं भवति यदुक्तं "श्रवणस्तुरगो राजा मयूरः कुंजरो वृषः॥ प्रस्थाने वा प्रवेशे वा सर्वे सिद्धिकरा मताः ॥ १ ॥ पद्मिनी राजहंसाश्च निर्बंयाश्च तपोधनाः॥ यं देशमुपसर्पति तस्मिन्देशे शुभं भवेत् ॥ २ ॥ यदुक्तमर्जुनं प्रति पुरुषोत्तमेन पुराणादौ 'आरोहस्व रथं पार्थ गांडीवं च करे कुरु ॥ निर्जितां मेदिनीं मन्ये निर्ग्रथो यदि संमुखः ॥ इति अत्र पूर्वमेव संन्यासिनाममंगलत्वेन प्रतिपादनान्निर्ग्रथशब्देन जैनमतानुसारिणो मुमुक्षवो गृह्यं ॥ ९ ॥
वसंतराजेति । अस्मिन वसंतराजाख्ये शाकुनशास्त्रे नरेगिते आलोकनं प्रथमं प्रकरणं व्याख्यातम् ॥ १ ॥
॥ भाषा ॥
दन करके चर्चित अंग जाको भोजनके अर्थ परिमाणमात्र अन्न के दान करके युक्त होय भोजन जाने कियो होय और पाठ करतो होय ऐसो ब्राह्मण होय तो सर्वसिद्धि देवे ॥ ८ ॥ अभ्युपगच्छतीति ॥ गमनकरो चाहे ता पुरुषके स्त्रीसहित पुरुष सम्मुख आवे अथवा फल हाथमें लिये होय केवल पुरुष होय वा स्त्री केवल होय तो वा पुरुषकूं शीघ्रही सर्व वांछित फल सिद्धि अवश्य होय ॥ ९ ॥
इति श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधरीयव संतराजशाकुने नरंगिते आलोकनं नाम प्रथमप्रकरणव्याख्या ॥ १ ॥
For Private And Personal Use Only