Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७२ )
वसंतराजशाकुने - पंचमो वर्गः ।
दृष्टे शवे रोदनशब्दहीने महार्थसिद्धिः कथितोद्यमेषु ॥ गृहप्रवेशे तु शवः शवत्वं रुजं सुदीर्घामथ वा ददाति ॥ ॥ १४ ॥ गंडूषमावर्तयतां नराणामंतर्जलं चेत्प्रविशत्यकस्मात् ॥ भवेत्तदाऽभीप्सितभोज्यलाभो यः कौतुकी तेन निरूप्यमेतत् ॥ १५ ॥ उज्झितं झटिति दंतधावनं संमुखं पतति यत्र वासरे || भोजनं भवति तत्र वांछितं व्यासभाषितमिदं हि नानृतम् ॥ १६ ॥ इति श्रीवसंतराजशाकुने शुभाशुभनिर्णयो नाम पंचमो वर्गः ॥ ५ ॥
॥ टीका ॥
र्यार्थः ॥ १३ ॥ दृष्ट इति ॥ रोदनशब्दहीने शवे दृष्टे सति उद्यमेषु महार्थसिद्धिः कथिता बुधैरिति शेषः । प्रवेशे तु शवः शवत्वमथ वा सुदीर्घा रुजं ददाति ॥ १४ ॥ गंडूषमिति ॥ गंडूषमावर्तयतां नराणां चेदकस्मादतर्जलं प्रविशति तदा अभीप्सितभोज्यलाभः स्यात् । यः कौतुकी स्यात्तेनैतन्निरीक्ष्यं विलोकनीयम् ॥ १५ ॥ उज्झितमिति ॥ उज्झितं त्यक्तं दंतधावनं यत्र वासरे झटिति शीघ्रं संमुखं पतति तत्र वासरे वांछितं भोजनं भवति हि यस्मादिदं व्यासभाषितं नानृतं सत्यमित्यर्थः १६
वसंतराज इति ॥ मया शुभाशुभे विचारिते कस्मिन्वसन्तराजशाकुने ग्रंथे अन्यानि विशेषणानि पूर्ववद्वयाख्येयानि इति शत्रुंजयकरमोचनादिसुकृतकारिभिमहोपाध्यायश्रीभानुचंद्र गणिभिर्विरचितायां वसंतराजटीकायां पंचमो वर्गः ॥५॥
॥ भाषा ॥
दृष्ट इति ॥ संगमें कोई रोतो न होय ऐसो शव कहा मरो मुरदा दीखे तो सर्व उद्यमन में महान् अर्थसिद्धि विवेकनने कही है और गृहप्रवेश समयमें तो शव दीखे तो मृत्यु अथवा दर्घ रोग देवे ॥ १४ ॥ गंडूषमिति ॥ गंडूष जो कुल्ला कर रह्यो होय मनुष्य ताके अकस्मात् भीतर जल प्रवेश करजाय तो वांछित भोजन पदार्थ लाभ होय जो के न मानें उनकूं या प्रकार देखलेनो योग्य हैं ॥ १५ ॥ उज्झितमिति ॥ जादिना दांतुन करतेमें दांतुन हाथमें सूं छूटके सम्मुख जाय पडे तादिना बांछित भोजन होय निश्चय ये व्यासजी - को वचन है झूठो नहीं है सत्य है ॥ १६ ॥
इति
श्रीमज्जटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंतराजशाकुनभाषाटीकायां शुभाशुभप्रकरणं नाम पंचमो वर्गः ॥ ५ ॥
For Private And Personal Use Only