Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६०)
वसंतराजशाकुने-चतुर्थो वर्गः । अच्छभल्लकपिदर्शनशब्दौ सिद्धिदौ न परिकीर्तनमिष्टम् ॥ दक्षिणेन गमनं विषमाणां शोभनं नकुलपक्षिमृगाणाम् ॥ ॥ ५५ ॥ पुरल्लिकाच्छिकरकूटपूराः प्रदक्षिणेनानि भवंति शस्ताः ॥ दिनावसाने नकुलं च चापं वामेन याते भृगुराह शस्तम् ॥५६॥
॥ टीका ।।
तेषामन्यतमः कीर्तनेक्षणरुतैरिति कीर्तनं नामोच्चारणम् ईक्षणमवलोकनं रुतं शब्दः पश्चादितरेतरद्वंद्वः । इष्टं दिशंति न तु दृष्टरुताभ्यां विलोकितशब्दाभ्यां शुभं ददतीय॑थः । जाहकः सेहल इति प्रसिद्धः।अहिः सर्पः शशशशकः सूकरः वराहः गोधा गोहति प्रसिद्धः एषामन्यतमः कीर्तनेन केवलनामोच्चारणेन इष्टं दिशति न तु दृष्टरुताभ्यां शुभं दिशंतीत्यर्थः ॥५४॥ अच्छेति॥अच्छः ऋच्छः उलूक इत्यन्ये । भल्लो मृगविशेषःकपिः वानरः एतेषां दर्शनशब्दौ सिद्धिदौ परं कीर्तनं नेष्टं तथा नकुलपक्षिमृगाणां विषमाणां विषमसंख्याकानामेव दक्षिणेन गमनं शोभनम् अत्र पक्षिशब्दे न चापो गृह्यते ॥५५॥ पुरल्लिकेति ॥ पुरल्लिकाः पिदडीति प्रसिद्धिभाजः छिक्करो मृगविशेषः कूटपूराः पूर्वोक्ताः एते हि दिवसे प्रदक्षिणेन गताः शस्ताः भवंति भृगुराचार्यस्तु दिनावसाने दिवसस्य विरामे नकुलं च पुनश्चाषं वामेन याते शस्तं शोभ
॥ भाषा॥
मयूर, और चाप, एभी नामोच्चारण, अवलोकन, शब्द इनकरके इष्ट जो वांछित ताय देबवारे हैं, और जाहक सेहलनामकरके प्रसिद्ध है, सर्प शशानाम खर्गोस सूकर गोह ये केवल नामोच्चारणही करके इष्ट जो वांछित ताय देवे हैं, दीखवे करके शब्दकरके शुभ नहीं देव हैं ॥ १४ ॥ अच्छेति ॥ ऋच्छ और भल्ल, वानर इनके दर्शन और शब्द ये दोनों सिद्धिके देवेबारे हैं और केवल नामलेनो इष्ट नहीं है तैसेही नकुल पक्षिनाम चाष, मृग ये विषम संख्या होंय तौ इनको दक्षिण गमन शुभ है ॥ ५५ ॥ पुरल्लिकेति ॥ पुरल्लिका नाम पिदडी और छिकर नाम मृग खोस और कृटपूर नाम कडछी ये दिवसमें दक्षिण माऊं शुभ होय हैं और भृगुजी नाम 'आचार्य, सो नकुल नाम न्योला और चाप नील वा
For Private And Personal Use Only