Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 305
________________ २९६ तत्त्वार्थश्लोकवार्तिके [तत्त्वार्था चरणसंपत्संभवति त्रात्येपि संभवात् । त्रात्योपि ब्राह्मणो विद्याचरणसंपन्नोस्तु । तदिदं ब्राह्मणत्वं विवक्षितमर्थ विद्याचरणसंपलक्षणं कचिद्ब्राह्मणे तादृश्येति क्वचिद्वात्येपि तद्भावेपि भावादित्यपि सामान्य तेन योगाद्वक्तुरभिप्रेतादर्थात् सद्भूतादन्यस्यासद्भूतस्यार्थस्य कल्पना सामान्यछलं । तच्च न युक्तं । यस्मादविवक्षिते हेतुकस्य विषयार्थवादः प्रशंसार्थत्वाद्वाक्यस्य तत्रासद्भूतार्थकल्पनानुपपत्तिः । यथा संभवत्यस्मिन् क्षेत्रे शालय इत्यत्राविवक्षितं शालिबीजमनिराकृतं च तन्निवृत्तिविषयक्षेत्रं प्रशस्यते । सोयं क्षेत्रार्थवादो नास्मिन् शाल्यो विद्यंत इति । बीजातु शालिनिर्वृत्तिः सती न विवक्षिता । तथा संभव ब्राह्मणे विद्याचरणसंपदिति सम्यग्विषयो ब्राह्मणत्वं न संपद्धेतुर्न चात्र तद्धेतुर्विवक्षितस्तद्विषयार्थवादस्त्वयं प्रशंसार्थत्वाद्वाक्यस्य सति ब्राह्मणत्वे संपद्धेतुः समर्थ इति विषयत्वाप्रशंसता वाक्येन यथा हेतुफलन्निवृत्तिर्न प्रत्याख्यायते तदेवं सति वचनविघातोसद्भूतार्थकल्पनया नोपपद्यते इति परस्य पराजयस्तथा वचनादित्येवं न्यायभाष्यकारो ब्रुवन्नायं वेत्ति, तथा छलव्यवहारानुपपत्तेः । हेतुदोषस्या - नैतिकत्वस्य परेणोद्भावना वा न वानैकांतिकत्वोद्भावनमेव सामान्यछलमिति सत्यं वक्तुं सर्वत्र, तस्य सामान्यछलत्वप्रसंगात् । शब्दो नित्योऽस्पर्शवत्त्यादाकाशवदित्यत्र हि यथा शब्दनित्यत्वे साध्ये अस्पर्शवत्त्वमाकाशे नित्यत्वमेति । सुखादिष्वत्येतीति व्यभिचारित्वादनैकांतिकमुच्यते न पुनः सामान्यछलं, तथा प्रकृतमपीति न विशेषः कश्चिदस्ति । सोयं ब्राह्मणे धर्मिणि विद्याचरणसंपद्विषये प्रशंसनं ब्राह्मणस्वेन हेतुना साध्यते, यथा शालिविषयक्षेत्रे प्रशंसा क्षेत्रत्वेन साक्षान्न पुनर्विद्याचरणसंपत्सत्ता साध्यते येनातिप्रशक्यत इति खयमनैकांतिकत्वं हेतोः परिहरन्नपि तन्नानुमन्यत इति कथं न्यायवित् ? तथोपचारछलमनूद्य विचारयन्नाह ; 'धर्माध्यारोप निर्देशे सत्यार्थप्रतिषेधनम् । उपचारछलं मंचाः क्रोशतीत्यादिगोचरम् ॥ २९९ ॥ मंचाः क्रोशति गायंतीत्यादिशब्दप्रयोजनम् । आरोप्य स्थानिनां धर्म स्थानेषु क्रियते जनैः ३०० गौणं शब्दार्थमासृत्य सामान्यादिषु सत्त्ववत् । तत्र मुख्याभिधानार्थे प्रतिषेधश्छलं स्थितम् ३०१ न चेदं वाक्छलं युक्तं किंचित्साधर्म्यमात्रतः । स्वरूप भेदसंसिद्धेरन्यथातिप्रसंगतः ॥ ३०२ ॥ कल्पनार्थीतरस्योक्ता वाक्छलस्य हि लक्षणं । सद्भूतार्थनिषेधस्तूपचारछललक्षणम् ॥ ३०३ ॥ अत्राभिधानस्य धर्मो यथार्थे प्रयोगस्तस्याध्यारोप्यो विकल्पः अन्यत्र दृष्टस्यान्यत्र प्रयोगः, मंचाः कति गायंतीत्यादौ शब्दप्रयोगवत् । स्थानेषु हि मंचेषु स्थानिनां पुरुषाणां धर्ममाक्रोष्टित्वादिकं समारोप्य जनैस्तथा प्रयोगः क्रियते गौणशब्दार्थश्रयणात् सामान्यादिष्वस्तीति शब्दप्रयोगवत् तस्य धर्माध्यारोपनिर्देशे सत्यर्थस्य प्रतिषेधनं न मंचाः क्रोशंति मंचस्थाः पुरुषाः क्रोशतीति । तदिदमुपचारछलं प्रत्येयं । धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेध उपचारछलं इति वचनात् । का पुनरत्रार्थविकल्पोपपत्तिर्यया वचनविघातश्छल मिति, अन्यथा प्रयुक्तस्याभिधानस्य न तथा परिकल्पनं । भक्तया हि प्रयोगौऽयं मंचाः क्रोशतीति तात्स्थात्तच्छन्दोपचारात् प्राधान्ये तस्य परिकल्पनं कृत्वा परेण प्रत्यवस्थानं विधी - यते । कः पुनरुपचारो नाम ? साहचर्यादिना निमित्तेन तदभावेपि तद्वदभिधानमुपचारः । यद्येवं बाक्छलादुपचारछलं न भिद्यते अर्थीतरकल्पनाया अविशेषात् । इहापि हि स्थानार्थो गुणशब्दः प्रधानशब्दः स्थानार्थ इति कल्पयित्वा प्रतिषिध्यते नान्यथेति । नैतत्सारं । अर्थातरकल्पनातोर्थसद्भावप्रतिषेधस्यान्यथात्वात्, किंचित्साधर्म्यात्तयोरेकत्वे वा त्रयाणामपि छलानामेकत्वप्रसंग: । अथ वाक्छलसामान्यछलयोः किंचित्साधर्म्य सदपि द्वित्वं न निवर्तयति, तर्हि तयोरुपचारछलस्य च किंचित्साधर्म्य विद्यमानमपि त्रित्वं तेषां न निवर्तयिष्यति, वचनविघातस्यार्थविकल्पोपपत्त्या त्रिष्वपि भावात् । ततोन्य Jain Education International For Private & Personal Use Only 4 www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522