Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 455
________________ तत्त्वार्थश्लोकवार्तिके [ सू० ६ मिथ्यादिकारणाविष्टदृष्टीकरणमत्र यत् । प्रशंसादिभिरुक्तान्या सा मिथ्यादर्शनक्रिया ||२५|| वृत्तमोहोदयात्पुंसामनिवृत्तिः कुकर्मणः । अप्रत्याख्या क्रियेत्येताः पंच पंच क्रियाः स्मृताः २६ ननु चेंद्रियकषायाव्रतानां क्रियाखभावनिवृत्तेः क्रियावचनेनैव गतत्वात् प्रपंचमात्र प्रसंग इति चेन्न, अनेकांतात् । नामस्थापनाद्रव्येंद्रिय कषायात्रतानां क्रियास्वभावत्वाभावात् । द्रव्यार्थादेशात्तेषां क्रियाखभावत्वात् । किं च, द्रव्यभावात्रवत्वभेदाचेंद्रियादीनां क्रियाणां च न क्रियाः तत्प्रपंचमात्रं इंद्रियादयो हि शुभेतरास्रवपरिणामाभिमुखत्वाद्रव्यासवाः क्रियास्तु कर्मादानरूपाः पुंसो भावास्रवा इति सिद्धांतः । कायवाङ्मनःकर्म योगः स आस्रव इत्यनेन भावास्रवस्य कथनात् । द्रव्यास्रव एव योगः कर्मागमनभावासवस्य हेतुत्वादिति चेन्न, आस्रवत्यनेनेत्यास्रव इति करणसाधनतायां योगस्य भावास्रवत्वोपपत्तेः । एव मंद्रियादीनामपि भावास्रवत्वप्रसंग इति चेन्न, तेषां क्रियाकारणत्वेन द्रव्यासवत्वेन विवक्षितत्वात् । आस्रवणमात्रव इति भावसाधनतायां क्रियाणां भावासवत्वघटनात् कार्यकारणभावाच्चेंद्रियादिभ्यः क्रियाणां पृथग्वचनं युक्तं इंद्रियादिपरिणामा हेतवः क्रियाणां तेषु सत्सु भावादसत्खभावादिति निगदितमन्यत्र । इंद्रियग्रहणमेवास्त्विति चेन्न तदभावेप्यप्रमत्तादीनामासवसद्भावात् । एकद्वित्रिचतुरिंद्रियासंज्ञिपंचेंद्रियेषु यथासंभवं चक्षुरादींद्रियमनोविचाराभावेपि क्रोधादिहिंसादिपूर्वक कर्मादानश्रवणात् । कषायाणां सांपरायिकभावे पर्याप्तत्वादन्याग्रहणमिति चेन्न, सन्मात्रेपि कषाये भगवत्प्रशांतस्य कषायस्य तत्प्रसंगात् । न श्च तस्येंद्रियकषायाव्रतक्रियास्रवाः संति, योगास्रवस्यैव तत्र भावात् । चक्षुरादिरूपाद्यग्रहणं वीतरागत्वात् । अत्रतवचनमेवेति चेन्न, तत्प्रवृत्तिनिमित्त निर्देशार्थत्वादिंद्रिय कषायक्रियावचनस्य । तदेवमिंद्रियादय एकान्नचत्वारिंशत्संख्याः सांपरायकस्य भेदा युक्ता एव वक्तुं संग्रहात् ॥ ४४६ कुतः पुनः प्रत्यात्मसंभवतामेतेषामात्रवाणां विशेष इत्याह ; ---- तीव्रमंदज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः ॥ ६ ॥ अतिप्रवृद्धक्रोधादिवशात्तीत्रः स्थूलत्वादुद्रिक्तः परिणामः, तद्विपरीतो मंदः, ज्ञानमात्रं ज्ञात्वा वा प्रवृत्तिर्ज्ञातं मदात्प्रमादाद्वा अनवबुद्ध्य प्रवृत्तिरज्ञातं, अधिक्रियतेस्मिन्नर्था इत्यधिकरणं प्रयोजनाश्रयं द्रव्यं, द्रव्यस्यात्मसामर्थ्य वीर्य । भावशब्दः प्रत्येकमभिसंबध्यते भुजिवत्, तीव्रभावो मंदभावो ज्ञातभावो अज्ञात भाव इति । युगपदसंभवाद्भावशब्दस्यायुक्तं विशेषणमिति चेन्न, बुद्धिविशेषव्यापारात्तस्य तद्विशेषणत्वोपपत्तेः । न हि सत्प्रत्ययाविशेषलिंगाभावादेको भावः सत्तालक्षण एवेति युक्तं, भावद्वैवियात् । द्विविधो हि स्याद्वादिनां भावः परिस्पंदरूपोऽपरिस्पंदरूपश्च । तत्रापरिस्पंद रूपोंतर्द्रव्याणामस्तित्वमात्रमनादिनिधनं तदेकं कथंचिदिति मा भूद्विशेषकं, परिस्पंदरूपस्तु व्ययोदयात्मकस्तीत्रादीनां विशेषकः कायादिव्यापारलक्षणः सकृदुपपद्यते, कायादिसत्त्वस्य च तस्याभिमतत्वात् । कायवाङ्मनः कर्मयोगाधिकारात्कथं तस्य विशेषकत्वमिति चेत्, बौद्धाव्यापारात् भेदेनायोद्धारसिद्धेः । आत्मनो व्यतिरेकाद्वा तत्रादीनां भावत्वसिद्धेः । किं च भावस्य भूयस्त्वात् असंख्येयलोकपरिमाणो हि जीवस्यैकैकस्मिन्नपि कषायादिपरिणामो भावः श्रूयते । ततो युक्तं भावस्य युगपत्तीत्रादीनां विशेषकत्वं । एकत्वेपि वा भावस्य परेष्ट्या बुद्ध्यानेकत्वकल्पनान्न चोद्यमेतत् । वीर्यस्य च परिणामत्वान्न पृथग्ग्रहणमिति चेन्न, तद्विशेषवतो व्यपरोपणादिष्वास्रवभेदज्ञापनार्थत्वात् पृथक्त्वं तद्ग्रहणस्य । वीर्यवतो ह्यात्मनस्तीत्रतीव्रतरादिपरिणामविशेषो जायत इति प्राणव्यपरोपणादिष्वासवफलभेदो ज्ञायते । तथा च तीत्रादिग्रहसिद्धिः । इतरथा हि जीवाधिकरणस्वरूपत्वाद्वीर्यवत्तीत्रादीनामपि पृथग्ग्रहणमनर्थकं स्यात् तन्निमित्त Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522