Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 490
________________ अष्टमोऽध्यायः। ४८१ वचनं समानस्थितिप्रतिपत्त्यर्थ । उक्तपरिमाणं सागरोपमकोटीकोट्य इति । द्वित्वे बहुत्वानुपपत्तिरिति चेन्न, राजपुरुषवत्तत्सिद्धेः । कोटीनां कोट्यः कोटीकोट्य इति । पराभिधानं जघन्यस्थितिनिवृत्त्यर्थ । संज्ञिपंचेंद्रियपर्याप्तकस्य परा स्थितिः, अन्येषामागमात्संप्रत्ययः । तद्यथा एकेंद्रियस्य पर्याप्तकस्यैकसागरोपमा सप्तभागास्त्रयः, द्वींद्रियस्य पंचविंशतिः सागरोपमाणां सप्तभागास्त्रयः, त्रींद्रियस्य पंचाशत्सागरोपमाणां, चतुरिंद्रियस्य सागरोपमशतस्य, असंज्ञिपंचेंद्रियस्य सागरोपमसहस्रस्य, अपर्याप्तसंज्ञिपंचेंद्रियस्यांतःसागरो. पमकोटीकोट्यः । एकद्वित्रिचतुःपंचेंद्रियासंज्ञिनां त एव भागाः पल्योपमासंख्येयभागोना इति परमागमप्रवाहः ।। कुतः परा स्थितिराख्यातप्रकृतीनामित्याह; आदितस्तिमृणां कर्मप्रकृतीनां परा स्थितिः । अंतरायस्य च प्रोक्ता तत्फलस्य प्रकर्षतः ॥१॥ सागरोपमकोटीनां कोट्यस्त्रिंशत्तदन्यथा । तदभावे प्रमाणस्याभावात्सा केन बाध्यते ॥ २ ॥ अथ मोहनीयस्य परां स्थितिमुपदर्शयन्नाह; सप्ततिर्मोहनीयस्य ॥ १५॥ सागरोपमकोटीकोट्यः परा स्थितिरित्यनुवर्तते । इयमपि परा स्थितिः संज्ञिपंचेंद्रियस्य पर्याप्तकस्य, एकद्वित्रिचतुरिंद्रियाणामेकपंचविंशतिपंचाशच्छतसागरोपमानि यथासंख्यं, तेषामेवापर्याप्तकानामेकेंद्रियादीनां पल्योपमासंख्येयभागोना, सैव पर्याप्तासंज्ञिपंचेंद्रियस्य सागरोपमसहस्रं, तस्यैवापर्याप्तकस्य सागरोपमसहस्रं पल्योपमसंख्येयभागोनं, संज्ञिनोपर्याप्तकस्यांतःसागरोपमकोटीकोट्य इति परमागमार्थः ॥ अथ नामगोत्रयोः का परा स्थितिरित्याह; विंशतिर्नामगोत्रयोः ॥ १६ ॥ सागरोपमकोटीकोट्यः परा स्थितिरित्यनुवर्तते । इयमपि परा संज्ञिनः पर्याप्तकस्यैकेंद्रियस्य एकसागरोपमः सप्तभागौ द्वौ, द्वींद्रियस्य पंचविंशतेः सागरोपमाणां, त्रींद्रियस्य पंचाशतः, चतुरिंद्रियस्य शतस्य, असंज्ञिनः पंचेंद्रियस्य सहस्रस्य, संज्ञिनोपर्याप्तकस्यांतःसागरोपमकोटीकोट्यः, एकेंद्रियादेः सैव स्थितिः पल्योपमासंख्येयभागोना । कथं बाधवर्जितमेतत्सूत्रद्वयमित्याह सप्ततिर्मोहनीयस्य विंशतिर्नामगोत्रयोः । इति सूत्रद्वयं बाधवर्जमेतेन वर्णितम् ॥१॥ ततोऽन्यथा स्थितिहकप्रमाणाभावे नैवेत्यर्थः ।। अथायुषः कोत्कृष्टा स्थितिरित्याह; त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥ १७ ॥ पुनः सागरोपमग्रहणात् कोटीकोटिनिवृत्तिः, परा स्थितिरित्यनुवर्तते । इयमपि परा स्थितिः संज्ञिनः पर्याप्तकस्य । इतरेषां यथागमं । तद्यथा-असंज्ञिनः पंचेंद्रियस्य पर्याप्तस्य पल्योपमासंख्येयभागः, शेषाणामुत्कृष्टा पूर्वकोटी । इयमपि तथैव बाधवर्जितेत्याह;तथायुषस्त्रयस्त्रिंशत्सागरोपमसंख्यया । परमस्थितिनिर्णीतिरिति साकल्यतः स्मृता ॥१॥ कर्मणामष्टानामपि परा स्थितिरिति शेषः ॥ अथ वेदनीयस्य काऽपरा स्थितिरित्याह; अपरा द्वादश मुहूर्ता वेदनीयस्य ॥१८॥ सूक्ष्मसांपराये इति वाक्यशेषः । एतदेवाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522