Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 504
________________ नवमोऽध्यायः । विविक्तशय्यासनं । कायक्लेशः स्थानमौनातपनादिरनेकधा । देहदुःखतितिक्षासुखानभिष्वंगप्रवचनप्रभावनाद्यर्थः । परीपहजातीयत्वात् पौनरुक्त्यमिति चेन्न, खकृतक्लेशापेक्षत्वात् कायक्लेशस्य । सम्यगित्यनुवृत्तेर्दृष्टफलनिवृत्तिः, सम्यग्योगनिग्रहो गुप्तिरित्यतः सम्यग्रहणमनुवर्तते । बाह्यद्रव्यापेक्षत्वाद्वाह्यत्वं, परप्रत्यक्षत्वात् तीर्थ्यग्रहस्थ कार्यत्वाच्चानशनादेः । एतच्च कर्मनिर्दहनात्तपः, देहेंद्रियतापाद्वा । केषा पुनः कर्मणां संवरः स्यात्तपसोऽस्मादित्याह ; पोढा बाह्यं विनिर्दिष्टं तपोत्रानशनादि यत् । संवरस्तेन च ज्ञेयो ह्यतपोहेतुकर्मणां ॥ १ ॥ अथाभ्यंतरं तपः प्रकाशयन्नाह ; - प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥ तप इति संबध्यते । अस्यान्यतीर्थानभ्यस्तत्वादुत्तरत्वं अभ्यंतरत्वमिति यात्रत्, अंतःकरणव्यापाराद्वाह्यद्रव्यानपेक्षत्वात् । खत एतच्च स्वसंवेद्यमिति दर्शयन्नाह - प्रायश्चित्तादिषड्भेदं तपः संवरकारणं । स्यादुत्तरं स्वसंवेद्यमिति स्पष्टमनोगतं ॥ १ ॥ तद्भेदगणनार्थमाह ; ४९५ नवचतुर्दशपंचदिभेदा यथाक्रमं प्राग्ध्यानात् ॥ २१ ॥ नवादीनां भेदशब्देनोपसंहितानामन्यपदार्था वृत्तिः । द्विशब्दस्य पूर्वनिपातप्रसंग इति चेन्न, पूर्वसू - त्रापेक्षत्वात् । शाब्दान्यायाद्वंद्वे स्युरल्पाच्तरमिति सूत्रात्संयोगादल्पीयस इत्युपसंख्यानाच्च द्विशब्दस्य पूर्वनिपातप्रसक्तावप्यर्थान्यायात् प्रायश्चित्तादिसूत्रार्थापेक्षया यथाक्रममभिसंबंधार्थ लक्षणमुल्लंघ्यते, अर्थस्य बलीयस्त्वात् लक्ष्यानुविधानाल्लक्षणस्य । एते च नवादयः प्रभेदा इत्याह प्रोक्ता नवादयो भेदाः प्राग्ध्यानात्ते यथाक्रमं । प्रायश्चित्तादिभेदानां तपसोभ्यंतरस्य हि ॥ १ ॥ यतस्तपसोऽभ्यंतरस्य प्रायश्चित्तादय एव भेदात्मानो नवादयस्तेषां भेदा इति प्रभेदास्ते । प्राग्ध्याना - दितिं वचनं यथासंख्यप्रतिपत्त्यर्थं ॥ तत्रास्य तपोभेदस्य नवविकल्पान् प्रतिपादयन्नाह ; — आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनाः ॥२२॥ प्रायश्चित्तस्य नव विकल्पाः प्रमाददोषव्युदासभावप्रसाद निःशल्यानवस्थाव्यावृत्तिमर्यादा त्यागसंयमदार्व्यभावनादिसिद्ध्यर्थं प्रायश्चित्तं प्रायोपराधस्तस्य चित्तं विशुद्ध्यर्थमित्यर्थः । तस्यालोचनादयो निरवद्यवृत्तयो नव विकल्पा भवतीत्याह आलोचनादयो भेदाः प्रायश्चित्तस्य ते नव । यथागममिह ज्ञेया निरवद्यप्रवृत्तये ॥ १ ॥ तत्र गुरवे प्रमादनिवेदनं दशदोषविवर्जितमालोचनं । प्रायश्चित्तलघुकरणार्थमुपकरणदानं, यदि लघु मे शक्त्यपेक्षं किंचित्प्रायश्चित्तं दीयते तदाहं दोषं निवेदयामीति दीनवचनं, परादृष्टदोषगूहनेन प्रकटदोषनिवेदनं, प्रमादालस्याभ्यामल्पदोषावज्ञानेन स्थूलदोषप्रतिपादनं, महादोषसंवरणेनाल्पदोषकथनं, ईदृशे दोषे किं प्रायश्चित्तमित्युपायेन प्रच्छन्नं, बहुयतिजनालोचनाशब्दाकुले खदोषनिवेदनं किमिदं गुरूपपादितं प्रायश्चित्तं युक्तमागमे न वेत्यनुगुरुप्रश्नः, महदपि प्रायश्चित्तं गृहीतं न फलकरमिति संचिंत्य स्वसमानाय प्रमादावेदनं, परगृहीतस्यैव प्रायश्चित्तस्यानुमतेन खदुश्चरितसंवरणं, इति दशालोचनदो - षास्तेषां वर्जनमात्मापराधस्याश्वेव निर्माय बालवहजुबुद्ध्याभिधानं तद्विशिष्टमालोचनं सम्यगवगंतव्यं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522