Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai
View full book text
________________
नवमोऽध्यायः ।
५०१
वस्तुत्वापत्तेर्हेत्वंगत्वादिभ्यः । न हि हेत्वंगं तु पक्षधर्मत्वादि वस्तुत्वमतिक्रामति । तद्वद्विपक्षे असत्त्वमपि हेत्वंगं तथा परपक्षप्रतिषेधे पक्षांगं चाभावो निदर्शनांगं चेति तस्य वस्तुधर्मयोगाद्वस्तुत्वं तथा प्रमाणनयविषयत्वात् कारणत्वात् कार्यत्वाद्विशेषणत्वाद्धेतोश्चेति प्रपंचतोभ्यूह्यं ततो न कश्चिदुपालंभः । ननु चैकस्तत्र नैकाग्रवचनं कर्तव्यं ? किं तर्ह्यकार्थवचनं स्पष्टार्थत्वादिति चेन्नानिष्टप्रसंगात् । वीचारोर्थव्यंजन1 योगसंक्रांतिरिति हीष्टं तत्र द्रव्येपर्यायात् संक्रमाभावस्यानिष्टस्य प्रसंग: । एकाग्रवचनेपि तुल्यमिति चेन्न, आभिमुख्ये सति पौनःपुन्येनापि प्रवृत्तिज्ञापनार्थत्वात् । आभिमुख्यवाचिनि ग्रशब्दे सत्येकाग्रेणैवाभिमुख्येन चिंतानिरोधः पर्याये द्रव्ये च संक्रामन्न विरुध्यते । प्राधान्यवाचिनो वैकशब्दस्य ग्रहणमिहाश्रीयते । प्रधानपुंसो ध्यातुरभिमुखश्चितानिरोध एकाग्रचिंतानिरोध इति सामर्थ्यात् क्वचिच्येयेर्थे द्रव्यपर्यायात्मनीति प्रतीयते, ततो नानिष्टप्रसंग: । अंगतीत्ययं पुमानिति तु शब्दार्थकथने सत्येकस्मिन् वा पुंसि चिंतानिरोध एकाग्रचिंतानिरोध इति द्रव्यार्थादेशाद्वाह्यध्येयप्राधान्यापेक्षा निवर्तिता, स्वस्मिन्नेव ध्यानस्य वृत्तिरिति नानार्थवाचित्वादेकाग्रवचनं न्याय्यं नैकार्थवचनं । नन्वेवमस्तु चिंतानिरोधो ध्यानं तस्य तु दिवसमासाद्यवस्थानमुपयुक्तस्येति चेन्न, इंद्रियोपघातप्रसंगात् । प्राणापाननिग्रहो ध्यानमिति चेन्न, शरीरपातप्रसंगात् । मंद मंदं प्राणापानस्य प्रचारो निग्रहस्ततो नास्त्येव शरीरपातः तत्कृत वेदनाप्रकर्षाभावादिति चेन्न, तस्य तादृशनिग्रहस्य ध्यानपरिकर्मत्वेन सामर्थ्यात्सूत्रितत्वात् आसनविशेषविजयादिवत् । तेनैकाग्रचिंतानिरोध एव ध्यानं । मात्राकालपरिगणनमिति चेन्न, ध्यानातिक्रमात् । तथा चित्तवैयग्र्यात् । एतेन जपस्य ध्यानत्वं प्रतिषिद्धं । विध्युपायनिर्देशः कर्तव्य इति चेन्न, गुयादिप्रकरणस्य तादर्थ्यात् । संवरार्थं तदिति चेन्न, प्रागुपदेशस्योभयार्थत्वात् । ततः संवरार्थः गुप्त्यादिप्रकरणं ध्यानविधौ तदुपायनिर्देशार्थं च भवति । तथापीह सकलध्यानधर्माणामिह सामर्थ्यासिद्धत्वात् ॥ तदेवं सामान्येनोक्तस्य ध्यानस्य विशेषप्रतिपत्त्यर्थमाह; --
आर्तरौद्रधर्म्यशुक्लानि ॥ २८ ॥
ऋतमर्दनमर्तिर्वा ऋते भवमार्त अत भवमार्तमिति वा दुःखभावं प्रार्थनाभावं वेत्यर्थः । रुद्रः क्रुद्धस्तत्कर्म रौद्रं तत्र भवं वा । धर्मादनपेतं धर्म्य | शुचिगुणयोगाच्छुक्कं । लोभाभिभवादेर्न तदाविर्भावोपपत्तेः । शुचिगुणयोगः प्रसिद्धः पारमार्थिकः । कथमेकं ध्यानं चत्वारि ध्यानानि स्युरित्याह ;आर्तादीनि तदेव स्युश्चत्वारि प्रतिभेदतः । ध्यानान्येकाग्रसामान्यचिंतांतरनिरोधतः ॥ १ ॥ आर्तरौद्रधर्मान्यपि हि ध्यानान्येवैकाय्यसादृश्यात् चिंतांतर निरोधाच्च शुक्लवत् । केवलमप्रशस्ते पूर्वे प्रशस्ते चेतरे । कुत इत्याह ।
तत्र तावत् ;
परे मोक्षहेतू ॥ २९ ॥
सामर्थ्यात् पूर्वे संसारहेतू सूत्रिते । संसारहेतुत्वादार्तरौद्रयोरप्रशस्तत्वं, परयोस्तु धर्मशुक्लयोः प्रशस्तत्वं मोक्षहेतुत्वात् इति । पूर्वाभ्यां धर्मस्यैव परत्वमिति चेन्न, व्यवहितेपि परशब्दप्रयोगात् द्विवचननिर्देशाद्वा गौणस्यापि संप्रत्येयः । कुतः परयोर्मोक्षहेतुत्वं पूर्वयोः संसारहेतुत्वमित्याह ;
मोक्षहेतू परे ध्याने पूर्वे संसारकारणे । इति सामर्थ्यतः सिद्धं विमोहत्वेतरत्वतः ॥ १ ॥ कथं धर्मस्य विमोहत्वमिति चेत्, मोहप्रकर्षाभावादिति प्रत्येयं । सामर्थ्यात् परयोर्मोक्षहेतुत्ववचनात् पूर्वयोः संसारहेतुत्वसिद्धिस्तयोर्मोहप्रकर्षयोगात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522