Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai
View full book text
________________
५१२ तत्त्वार्थश्लोकवार्तिके
[सू०९ जन्मसिद्धाः पुनस्तेभ्यः संख्येयगुणताभृतः । कर्मभोगधरा वार्धिद्वीपोर्ध्वाधस्तिरोभुवाः ॥२०॥ सिद्धानामूर्ध्वसिद्धाः स्युः सर्वेभ्योल्पे परेन्यथा। युः संख्येयगुणास्तेभ्योधस्तिर्यग्भिताः क्रमात् ॥
समुद्रे सर्वतः स्तोका द्वीपे संख्येयसंगुणाः। लवणोदे समस्तेभ्यः स्तोकाः सिद्धा विशेषतः॥२२॥ कालोदे सागरे जंबूद्वीपे च परिनिर्वृताः । धातकीखंडसवीपे पुष्करद्वीप एव च ॥ २३ ॥ ते संख्येयगुणाः प्रोक्ताः क्रमशो बहवोन्यथा । प्रत्येतव्याः समासेन यथागममशेषतः ॥२४॥ एक एव तु सिद्धात्मा सर्वथेति यके विदुः । तेषां नानात्मनां सिद्धिमार्गानुष्ठा वृथा भवेत् ॥२५ क्षेत्राद्यपेक्षया चोक्तां संसार्येकत्वमंजसा । एकात्मवादिना चैवं तत्र वाचोप्रमाणता ॥२६॥ निःशेषकुमतध्वांतविध्वंसनपटीयसी । मोक्षनीतिरतो जैनी भानुदीप्तिरियोज्वला ॥ २७ ॥ एवं जीवादितत्त्वार्थाः प्रपंच्य समुदीरिताः । सम्यग्दर्शनविज्ञानगोचराश्चरणाश्रयाः ॥२८॥ ततः साधीयसी मोक्षमार्गव्याख्या प्रपंचतः । सर्वतत्त्वार्थविद्येयं प्रमाणनयशक्तितः॥२९॥ तदेवं शास्त्रपरिसमाप्तौ परममंगलं निःश्रेयसमार्गमेव मंगलमभिष्टोतुमनाः प्राह;
जीयात्सजनताश्रयः शिवसुधाधारावधानप्रभु____ वस्तध्वांतततिः समुन्नतगतिस्तीव्रप्रतापान्वितः । प्रोज्योतिरिवावगाहनकृतानंतस्थितिर्मानतः सन्मार्गस्त्रितयात्मकोऽखिलमलप्रज्वालनप्रक्षमः ॥ ३० ॥
इति दशमाध्यायस्य द्वितीयमाह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे दशमोऽध्यायः ममाप्तः ॥ १० ॥
ही तत्त्वार्थश्लोकवार्तिकं समाप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 519 520 521 522