Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai
View full book text
________________
५१०
तत्त्वार्थश्लोकवार्तिके
[ सू०७
ततः सकलकल्मषसंततिसंसक्तिविनिर्मुक्तिरेव स्वात्मेति समाचक्षते युक्तिशास्त्राविरुद्धवचसः सूरयो भगवंतस्तस्य खात्मनः प्राप्तिः परा निवृत्तिरिति निःसंदिग्धं तेन खविशेषगुणव्यावृत्तिर्मुक्तिश्चैतन्यमात्रस्थितिर्वा अन्यथा वा वदंतोपाकृताः, प्रमाणव्याहतत्वादिति निवेदयति ;
स्वात्मांतर्बहिरंगकल्मषततिव्यासक्तिनिर्मुक्तता जीवस्येति वदंति शुद्धधिषणा युक्त्यागमान्वेषिणः । प्राप्तिस्तस्य तु निर्वृतिः परतरा नाभावमात्रं न वा विश्लेषो गुणतोन्यथा स्थितिरपि व्याहन्यमानत्वतः ॥ ४ ॥ इति दशमाध्यायस्य प्रथममाह्निकम् ।
तदनंतरमूर्ध्वं गच्छत्यालोकांतात् ॥ ५ ॥
तग्रहणं मोक्षस्य प्रतिनिर्देशार्थं, आङभिविध्यर्थः । एतदेव समभिधत्ते ;
तच्छब्दाद्गृह्यते मोक्षः सूत्रेस्मिन्नान्यसंग्रहः । सामर्थ्यादिति तस्यैवानंतरं तदनंतरं ॥ १ ॥ गच्छतीति वचःशक्तेर्मुक्तिदेशे स्थितिच्छिदा । ऊर्ध्वमित्यभिधानात्तु दिगंतरगतिच्युतिः ||२|| आलोकांतादिति ध्वानान्नालोकाकाशगामिता ।
मुक्तिश्च इति त्वयं पक्षनिर्देश : "
...... हेतुनिर्देशस्तर्हि कर्तव्य इत्याह ;
पूर्वप्रयोगादसंगत्वाधच्छेदात्तथा
गतिपरिणामाच्च ॥ ६ ॥
एतच्च हेतुचतुष्टयं कथं गमकमित्याह ;
पूर्वेत्याद्येन वाच्येन प्रोक्तं हेतुचतुष्टयं । साध्येन व्याप्तमुन्नेयमन्यथानुपपतितः ॥ १ ॥ अत्रैव दृष्टांतप्रतिपादनार्थमाह; - आविद्धकुलालचक्रवद्यपगतलेपालाबु वदेरंडवीजवदग्निशिखावच्च ॥ ७ ॥
किमर्थमिदमुदाहरणचतुष्टयमुक्तमित्याह ;
आविद्धेत्यादिना दृष्टं सद्द्द्दष्टांतचतुष्टयं । बहिर्व्याप्तिरपीष्टेह साधनत्वप्रसिद्धये || १ || हेतुदृष्टांतानां यथासंख्यमभिसंबंधः । कथमित्याह
Jain Education International
ऊर्ध्वं गच्छति मुक्तात्मा तथा पूर्वप्रयोगतः । यथाविद्धं कुलालस्य चक्रमित्यत्र साधनं ॥ २ ॥ नासिद्धं मोक्तुकामस्य लोकाग्रगमनं प्रति । प्रणिधानविशेषस्य सद्भावाद्भूरिशः स्फुटं ॥ ३ ॥ न चानैकांतिकं तत्स्याद्विरुद्धं वा विपक्षतः । व्यावृत्तेः सर्वथा नेष्टविघातकृदिदं ततः ॥ ४ ॥ असंगत्वाद्यथालाबूफलं निर्गतलेपनं । बंधच्छेदाद्यथैरंडवीजमित्यप्यतो गतं ॥ ५ ॥ ऊर्ध्वव्रज्यास्वभावत्वादग्नेज्वला यथेति च । दृष्टांतेपि न सर्वत्र साध्यसाधनशून्यता ॥ ६ ॥ असंगत्वबंधच्छेदयोरर्थाविशेषादनुवादप्रसंग इति वेन्नार्थान्यत्वात् । बंधस्यान्योन्यप्रवेशे सत्यविभागेनावस्थान रूपत्वात्, संगस्य च परस्य प्राप्तिमात्रत्वात् । नोदाहरणमलाबूः मारुतादेशादिति चेन्न, तिर्थ - गमनप्रसंगात् तिर्यग्गमनखभावत्वान्मारुतस्य । नन्वेवमूर्ध्वगतिखभावस्यात्मन ऊर्ध्वगत्यभावेपि तद्भा
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 517 518 519 520 521 522