Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 518
________________ दशमोऽध्यायः । ५०९ सर्वे योधाः पराङ्मुखाः' इति यथा । अन्यशब्दप्रयोगे तद्विज्ञानमिति चेन्न, प्रत्ययांतस्यापि प्रयोगे तद्द - र्शनात् । अनंतवीर्यादिनिवृत्तिप्रसंग इति चेन्न, अत्रैवांतर्भावात् । अनंतवीर्यहीनस्यानंतावबोधवृत्त्यभावात् सुखस्य ज्ञानसमवायित्वात् । बंधस्याव्यवस्था अश्वादिवदिति चेन्न, मिथ्यादर्शनाद्युच्छेदे कार्त्स्न्येन तत्क्षयात् । पुनः प्रवर्तनप्रसंगो जानतः पश्यतश्च कारुण्यादिति चेन्न, सर्वास्रवपरिक्षयात् । वीतरागे स्नेहपर्यायस्य कारुण्यस्यासंभवाद्भक्तिस्पृहादिवत् । अकस्मादिति चेदनिर्मोक्षप्रसंगः सतो हेतुकस्य नित्यत्वापत्तेर्विनाशायोगात् । मुक्तस्य स्थानवत्त्वात् पात इति चेन्न, अनास्रवत्वात् । सास्रवस्य यानपात्रादेः पातदर्शनात्, गौरवाभावाच्च तस्य न पातस्तालफलादेः सति गौरवे वृन्तसंयोगाभावात्पतनप्रसिद्धेः । ननु महापरिमाणानामल्पीयस्याधारे मोक्षक्षेत्रे परस्परोपरोध इति चेन्न, अवगाहशक्तियोगात् नानाप्रदीपमणिप्रकाशादिवत् । तत एव जन्ममरणद्वंद्वोपनिपातव्याबाधाविरहात् परमसुखिनः । तत्सुखस्य नास्त्युपमानमाकाशपरिमाणवत् । मुक्तानामनाकारत्वादभाव इति चेन्नातीतानंतरशरीराकारानुविधायित्वात् गतसिक्ककमूषागर्भवत् । मुक्तानामशरीरत्वे तद्भावाद्विसर्पणप्रसंग इति चेत् न, कारणाभावात् । कुतः कारणात् संहरणविसर्पणे संसारिणः स्यातामिति चेत्, नामकर्मसंबंधात् संहरणविसर्पणधर्मत्वं प्रदीपे प्रकाशवत् । नात्मनः संहरणविसर्पणवत्त्वे साध्ये प्रदीपो दृष्टांतः श्रेयान् मूर्तिमद्वैधर्म्यादिति चेन्न, उभयलक्षणप्राप्तत्वात् । दृष्टांतस्य हि लक्षणं साध्यधर्माधिकरणत्वं साधनधर्माधिकरणत्वं च । तत्र संहरणविसर्पणधर्मकत्वस्य साध्यस्याधिष्ठान परिमाणानुविधायित्वस्य साधनस्य च प्रदीपे सद्भावात् स दृष्टांतः स्यादेव जीवस्य चामूर्तमूर्तत्वोभयलक्षणयुक्तत्वात् न मूर्तिमद्वैधर्म्यमस्ति यतोयं दृष्टांतो न स्यात् । " बंधं प्रत्येकत्वं लक्षणतो भवति तस्य नानात्वं । तस्मादमूर्तिभावो नैकांताद्भवति जीवस्य ॥” इति वचनात् कथंचिन्मूर्तिमत्त्वस्यापि प्रसिद्धेः । नामकर्मसंबंधप्रसंग: प्रदीपस्येति चेन्न तस्य दृष्टांतत्वेनाविवक्षितत्वात् साधनधर्मत्वानभिप्रायात् स्वाधिष्ठानपरिमाणानुविधायित्वस्य च साधनधर्मस्य तत्र भावात् । शरीरं हि जीवस्याधिष्ठानं प्रदीपस्य तु गृहं तत्परिमाणानुविधानमुभयोरस्तीति नोपालंभनः । शरीरपरिमाणानुविधायित्वं साधनं प्रदीपे तस्यासत्त्वात् । नापि गृहपरिमाणानुविधायित्वं तस्यात्मन्यभावात् । तत इदमुच्यतेसंसारी जीवः प्रदेशसंहरणविसर्पणधर्मकः स्वाधिष्ठानपरिमाणानुविधायित्वात् प्रदीपप्रकाशवत् । न हि मुक्तात्मा स्वाधिष्ठानपरिमाणानुविधायी तस्याशरीराधिष्ठानस्याभावात् । पूर्वानंतरशरीरपरिमाणं तु यदनुकृतं तत्परित्यागकारणस्य नामकर्मसंबंधिनिबंधनशरीरांतरस्याभावान्न विसर्पणं मुक्तस्य, यतो लोकाकाशपरिमाणत्वापत्तिः । ननु संहरणविसर्पणस्वभावस्यात्मनः प्रदीपवदेवानित्यत्वप्रसंग इति चेन्न, तावन्मात्रस्य विवक्षितत्वात् चंद्रमुखीवत् । संहरणविसर्पणस्वभावत्वमात्रं विवक्षितं चंद्रमुखी प्रियदर्शनवत् । सर्वसाधर्म्ये दृष्टांतस्यापह्नवात् । सर्वथाऽभावो मोक्षः प्रदीपवदिति चेन्न, साध्यत्वात् । प्रदीपेपि निरन्वयविनाशस्याप्रतीतेः तस्य तमः पुद्गलभावेनोत्पादाद्दीपपुद्गलभावेन विनाशात् पुद्गलजात्या ध्रुवत्वात् । दृष्टत्वाच्च निगलादिवियोगे देवदत्ताद्यवस्थानवत् । न सर्वथा मोक्षावस्थायामभावः । यत्रैव कर्मविप्रमोक्षस्तत्रैवावस्थानमिति चेन्न, साध्यत्वात् । यो यत्र विप्रमुक्तः स तत्रैवावतिष्ठत इति सिद्धं, देशांतरगतिदर्शनात् । निगलादिविनिर्मुक्तस्य गतिकारणसद्भावाद्देशांतरगतिदर्शनमिति चेत्, निःशेषकर्मबंधन विप्रमुक्तस्यापि गतिनिमित्तस्योर्ध्वव्रज्याखभावस्य भावात् देशांतरा गतिरस्तु । तदेवं - १॥ मोक्षः केवलसम्यक्त्वज्ञानदर्शनसंक्षयात् । सिद्धत्वसंक्षयान्नेति त्वन्यत्रेत्यादिनात्रवीत् ॥ १ एतैः सह विरोधस्याभावान्मोक्षस्य सर्वथा । स्वयं सव्यपदेशैश्च व्यपदेशस्तथास्त्वतः ॥ २ ॥ सिद्धत्वं केवलादिभ्यो विशिष्टं तेषु सत्खपि । कर्मोदयनिमित्तस्यासिद्धत्वस्य कचिद्गतेः ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522