Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 511
________________ ५०२ तत्त्वार्थश्लोकवार्तिके [ सू० ३४ तत्रार्तस्य किं लक्षणमित्याह;आर्तममनोज्ञस्य संप्रयोगे तदिप्रयोगाय स्मृतिसमन्वाहारः ॥ ३०॥ अप्रियममनोज्ञं बाधाकारणत्वात् । भृशमर्थातरचिंतनादाहरणं समन्वाहारः । आधिक्येनाहरणादेकत्रावरोधः पुनः पुनः प्रबंध इत्यर्थः । स्मृतेः समन्वाहारः स्मृतिसमन्वाहारः । तेनामनोज्ञस्योपनिपाते स कथं नाम मे न स्यादिति संकल्पश्चिंताप्रबंध आर्तमिति प्रकाशितं भवति । तत्र किंहेतुकमित्याह; आर्त चतुर्विधं तत्र संक्लेशांगतयोदितं । आर्तमित्यादिसूत्रेण प्रथमं द्वेषहेतुकम् ॥१॥ मिथ्यादर्शनाविरतिप्रमादपरिणामः संक्लेशः, तत् खरूपं तत्कारणकं तत्फलं च संक्लेशांगं तस्य भावः संक्लेशांगता तयार्तध्यानमुदितं । तच्चतुर्विधं स्वरूपभेदात् । तत्र प्रथममार्तमित्यादिसूत्रेण द्वेषहेतुकं सूत्रितं ॥ द्वितीयं किंखरूपमित्याह; विपरीतं मनोज्ञस्य ॥ ३१ ॥ उक्तविपर्ययाद्विपरीतं मनोज्ञस्य विप्रयोगे तत्संप्रयोगाय स्मृतिसमन्वाहारो द्वितीयमार्तमित्यर्थः । प्रियस्य मनोज्ञस्य विप्रयोगो विश्लेषस्तस्मिन् सति तत्संप्रयोगाय पुनः पुनश्चिताप्रबंधः । सा मे प्रिया कथं प्रयोगिनी स्यादिति प्रबंधन चिंतनमार्तध्यानमप्रशस्तमिति सूत्रकारस्याभिप्रायः । किं जन्म तदित्याह; विपरीतं मनोज्ञस्येत्यादिसूत्रेण निश्चितं । द्वितीयमनुयोगोत्थमार्तध्यानमसत्फलं ॥१॥ तृतीयं किमार्तमित्याह; वेदनायाश्च ॥ ३२॥ स्मृतिसमन्वाहारस्तृतीयमार्तमित्यभिसंबंधकरणात् दुःखवेदनासंप्रत्ययः । किंनिबंधनं तदित्याह;असद्वद्योदयोपात्तद्वेषकारणमीरितं । तृतीयं वेदनायाश्चेत्युक्तं सूत्रेण तत्त्वतः ॥१॥ चतुर्थ किमित्याह; निदानं च ॥ ३३॥ निदानविषयः स्मृतिसमन्वाहारः निदानं । विपरीतं मनोज्ञस्येत्येवं सिद्धमिति चेन्नाप्राप्तपूर्वविषयत्वानिदानस्य । किंहेतुकं तदित्याहनिदानं चेति वाक्येन तीव्रमोहनिबंधनं । चतुर्थं ध्यानमित्यात चतुर्विधमुदाहृतं ॥१॥ नीलां लेश्यां समासृत्य कापोती वा समुद्भवेत् । तदज्ञानात् कुतोप्यात्मपरिणामात्तथाविधात्।।२ पापप्रयोगनिःशेषदोषाधिष्ठानमाकुलं । भोगप्रसंगनानात्मसंकल्पासंगकारणं ॥३॥ धर्माशयपरित्यागि कषायाशयवर्धनं । विपाककटु तिर्यक्षु समुद्भवनिबंधनं ॥४॥ केषां पुनस्तत्स्यादित्याह; तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ ३४॥ अविरतादयो व्याख्याताः । कदाचित्राच्यमार्तध्यानत्रयं प्रमत्तानां, तेषां निदानस्यासंभवात् । तत्संभवे प्रमत्तसंयतत्वविघातात् । कुतस्तेषां तद्भवेदित्याहतत्स्यादविरतादीनां त्रयाणां तनिमित्ततः । नाप्रमत्तादिषु क्षीणतन्निमित्तेषु जातुचित् ॥१॥ अथ रौद्रं ध्यानं कुतः कस्य किंखरूपमुच्यते ? इत्याह; Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522