Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 513
________________ तत्त्वार्थश्लोकवार्तिके [ सू० ४१ साकल्येन विनिर्दिष्टं तत्प्रमत्ताप्रमत्तयोः । अंतरंगतपो भेदरूपं संघतयोः स्फुटं ॥ ८ ॥ संयतासंयतस्यैकदेशेन संयतस्य तु । योग्यतामात्रतः कैश्विद्यैर्दुर्ध्यानं प्रचक्षते ॥ ९॥ धर्म्यमप्रमत्तस्येति चेन्न, पूर्वेषां निवृत्तिप्रसंगात् । इष्यते च तेषां सम्यक्त्वप्रभावाद्धर्म्यध्यानं । उपशांतक्षीणकषाययोश्चेति चेन्न, शुक्लाभावप्रसंगात् । तदुभयं तत्रेति चेन्न, पूर्वस्यानिष्टत्वात् । धर्म्यं श्रेण्योष्यते ततस्तयोः शुक्लमेव ॥ अथ श्रुतकेवलिनः किं ध्यानमित्याह ; ५०४ शुक्ले चाद्ये पूर्वविदः ॥ ३७ ॥ पूर्वविद्विशेषणं श्रुतकेवलिनस्तदुभयप्रणिधानसामर्थ्यात् । चशब्दः पूर्वध्यानसमुच्चयार्थः । किं कृत्वै - वमुच्यते सूत्रमाचार्यैरित्याह मत्त्वा चत्वारि शुक्लानि प्रोच्यमानानि सूरिणा । आद्ये पूर्वविदः शुक्रे धर्म्य चेत्यभिधीयते ॥ १ ॥ विषयविवेकापरिज्ञानमिति चेन्न, व्याख्यानतो विशेषप्रतिपत्तेः । श्रेण्यारोहणात्प्राक् धर्म्यध्यानं, श्रेण्योः शुक्लध्यानमिति व्याख्यानं विषयविवेकापरिज्ञाननिमित्तमाश्रीयते । तथाहि श्रेण्याधिरोहिणः शुक्ले धर्म्य पूर्वस्य तस्य हि । अपूर्वकरणादीनां शुक्लारंभकतास्थितेः || २ || अथावशिष्टे शुक्ले कस्य भवत इत्याह परे केवलिनः ॥ ३८ ॥ केवलिशब्दसामान्यनिर्देशात्तद्वतोरुभयोर्ग्रहणं । कथमित्याह;— परे केवलिनः शुक्ले संयोगस्येतरस्य च । यथायोगं स्मृते तज्ज्ञैः प्रकृष्टे शुद्धिभेदतः ॥ १ ॥ कानि पुनस्तानि चत्वारि शुक्लध्यानानि यानि स्वामिविशेषाश्रयतया विभज्यंते इत्याह ;पृथक्त्वैकत्ववितर्क सूक्ष्मक्रियाप्रतिपातिव्युपरतक्रिया निवर्तीनि ॥ ३९ ॥ वक्ष्यमाणलक्षणापेक्षया सर्वेषामन्वर्थत्वं । तत एवाह; पृथक्त्वेत्यादिसूत्रेणान्वर्थनामानि तान्यपि । शुक्लानि कथितान्युक्तस्वामिभेदानि लक्षणैः ॥१॥ अथैतेषु चतुर्षु शुक्लध्यानेषु किं कियद्योगस्य भवतीत्याह ; sयेकयोगकाययोगायोगानाम् ॥ ४० ॥ योगशब्दो व्याख्यातार्थः । यथासंख्यं चतुर्णी संबंधः । त्रियोगस्य पृथक्त्ववितर्क, त्रिषु योगेष्वेकयोगस्यैकत्ववितर्क, काययोगस्य सूक्ष्मक्रियाप्रतिपाति, अयोगस्य व्युपरतक्रियानिवर्तीति । तदाहतत्र प्राच्यं त्रियोगस्यैकैकयोगस्य तत्परं । तृतीयं काययोगस्यायोगस्य च तुरीयकं ॥ १ ॥ योगमार्गणया तेषां सद्भावनियमः स्मृतः । एवं त्रीत्यादिसूत्रेण विवाद विनिवृत्तये ॥ २ ॥ तत्राद्ययोर्विशेषप्रतिपत्त्यर्थमाह; - एकाश्रये सवितर्कवीचारे पूर्वे ॥ ४१ ॥ कुत इत्याह ; एका प्रतिप्राप्तश्रुतज्ञानाश्रयत्वतः । सवितर्के श्रुते तत्त्वात्सवीचारे च संक्रमात् ॥ १ ॥ अर्थ व्यंजनयोगेषु सामान्येनोपवर्तिते । पूर्वे शुक्ले त्रियोगकयोगसंयतसंश्रयात् ॥ २ ॥ Jain Education International ――――― For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522