Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai
________________
५०५
नवमोऽध्यायः । पूर्वविदारभ्यत्वादेकाश्रयत्वसिद्धिः । सवितर्कवीचारे इति द्वंद्वपूर्वोन्यपदार्थनिर्देशः । पूर्वत्वमेकस्यैवेति चेन्न, उक्तत्वात् ॥ तत्र यथाप्रसंगे च अनिष्टनिवृत्त्यर्थमिदमारभ्यते;
अवीचारं द्वितीयम् ॥ ४२ ॥ अवीचारं द्वितीयं तत्संक्रांतेरसमुद्भवात् । एकयोगस्य तद्ध्यातुरिति पाहापवादतः ॥१॥ सवितर्क सवीचारं पृथक्त्वेन ततः स्थितं । प्राच्यं शुक्लं तु सवितर्कवीचारबलादिह ॥२॥ तथाऽवितर्कवीचारे परे शुक्ले निवेदिते । काययोगाधिनाथत्वादयोगाधिपतित्वतः ॥३॥ कोयं वितर्क इत्याह;
वितर्कः श्रुतम् ॥ ४३॥ किमेतत्सूत्रवचनादभिप्रेतमित्याह;वितर्कः श्रुतमस्पष्टतर्कणं न पुनर्मतेः । भेदश्चिंताख्य इत्येतत्सूत्रारंभादभीप्सितं ॥१॥ कः पुनर्वीचार इत्याह;
वीचारोर्थव्यंजनयोगसंक्रांतिः ॥ ४४ ॥ कुतोन्यो न वीचार इत्याह;अर्थव्यंजनयोगेषु संक्रांतिश्चेतसस्तु या । स वीचारो न मीमांसा चरेर्गत्यर्थनिष्ठतः ॥१॥ एवं निरुक्तितोर्थस्याव्यभिचारित्वदर्शनात् । प्रोक्तं वितर्कवीचारलक्षणं सूत्रतः स्वयं ॥२॥ द्रव्यं हित्वा पर्याये तं त्यक्त्वा द्रव्ये संक्रमणमर्थसंक्रांतिः, अर्थस्य द्रव्यपर्यायात्मकत्वात् । एवं श्रुतवचनमवलंव्य श्रुतबचनांतरालंबनं व्यंजनसंक्रांतिः । काययोगाद्योगांतरे ततोपि काययोगे संक्रमणं योगसंक्रांतिः । एवं परिवर्तनं वीचारस्तेन युतं वितर्केण च श्रुताख्येन विशिष्टं पृथक्त्ववितर्कवीचारं प्रथमशुक्लध्यानं । कीदृग्ध्याता तयातुमर्हतीत्याह;
कृतगुप्त्याद्यनुष्ठानो यतिर्याितिशायनः । अर्थव्यंजनयोगेषु संक्रांती पृथगुद्यतः ॥३॥ तदोपशमनान्मोहप्रकृतीः क्षपयन्नपि । यथा परिचयं ध्यायेत्कचिद्वस्तुनि सक्रियः॥४॥ सवितर्क सवीचारं पृथक्त्वेनादिमं मुनिः । ध्यानं प्रक्रमते ध्यातुं पूर्वदेही निराकुलः ॥५॥ अथ द्वितीयं को ध्यातुमर्हतीत्याह;-- स एवामूलतो मोहक्षपणागूर्णमानसः । प्राप्यानंतगुणां शुद्धिं निरंधन बंधमात्मनः ॥६॥ ज्ञानावृतिसहायानां प्रकृतीनामशेषतः । हासयन्क्षपयंश्चासां स्थितिबंधं समंततः ॥७॥ श्रुतज्ञानोपयुक्तात्मा वीतवीचारमानसः । क्षीणमोहोपकंपात्मा प्राप्तक्षायिकसंयमः ॥ ८॥ ध्यात्वैकत्ववितर्काख्यं ध्यानं घात्यघघसरं । दधानः परमां शुद्धिं दुरवाप्यामतोन्यतः ॥९॥ अथ तृतीयं ध्यानं को ध्यायत इत्याह;ततो निर्दग्धनिःशेषघातिकमधनः प्रभुः । केवली सदृशाघातिकर्मस्थितिरशेषतः ॥ १० ॥ संत्यज्य वाङ्मनोयोगं काययोगं च बादरं । सूक्ष्मं तु तं समाश्रित्य मंदस्पंदोदयस्त्वरं ॥११॥ ध्यानं सूक्ष्मक्रियं नष्टप्रतिपातं तृतीयकं । ध्यायेद्योगी यथायोगं कृत्वा करणसंतति ॥ १२ ॥
६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522