Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai
View full book text
________________
५००
तत्त्वार्थश्लोकवार्तिके
[ सू० २७
पत्तेः सकृन्मनसो व्यापारद्वितयायोगात् ज्ञानयोगपद्यप्रयत्नयौगपद्याभ्यां मनसोऽव्यवस्थितैः । एतेन प्राणायामधारणयोरध्यानकारणत्वमुक्तं प्रत्याहारवत् । यमनियमयोस्तु तदंगत्वमिष्टमेव । असंयतस्य योगाप्रसिद्धेः । आ अंतर्मुहूर्तादिति कालविशेषवचनाच्च नानुत्तमसंहननस्य ध्यानसिद्धि:, तेनोत्तमसंहननविधानमन्यस्येयत्कालाध्यवसायधारणासामर्थ्यादुपपन्नं भवति । तत ऊर्ध्वं तन्नास्तीत्याह -
अंतर्मुहूर्ततो नोर्ध्वसंभवस्तस्य देहिनां । आ अंतर्मुहूर्तादित्युक्तं कालांतरच्छिदे ॥ ८ ॥
"
न ह्युत्तमसंहननोपि ध्यानमंतर्मुहूर्तादूर्ध्वमविच्छिन्नं ध्यातुमीष्टे पुनरावृत्त्या परांतर्मुहूर्तकाले ध्यानसंततिश्चिरकालमपि न विरुध्यते । ननु यद्येकांतर्मुहूर्तस्थास्नु ध्यानं प्रतिसमयं तादृशमेव तदित्यंत समयेपि तेन तादृशेनैव भवितव्यं । तथा च द्वितीयाद्यंतर्मुहूर्तेष्वपि तस्य स्थितिसिद्धेर्न जातु विच्छेदः स्यात्, प्रथमांतर्मुहूर्तपरिसमाप्तौ तद्विच्छेदे वा द्वितीयादिसमये विच्छेदानुषक्तेः क्षणमात्रस्थितिः ध्यानमायातं, सर्वपदार्थानां क्षणमात्रस्थास्नुतया प्रतीतेरक्षणिकत्वे बाधकसद्भावात् इति केचित् तेषामपि प्रथमक्षणे ध्यानस्यैकक्षणस्थायित्वे तदवसाने प्येकक्षणस्थायित्वप्रसंगात् न जातुचिद्विनाशः सकलक्षणव्यापिस्थितिप्रसिद्धेः, अन्यथैकक्षणेपि न तिष्ठेत् । अथैकक्षणस्थितिकत्वेनोत्पत्तिरेव क्षणस्थायिनः प्रच्युतिरतो न सदवस्थितिः । तर्ह्यतर्मुहूर्त स्थिति कध्यानवादिनामंतर्मुहूर्तादुत्तरकालं समयादिस्थितिकत्वेनोत्पत्तिरेवानंतर्मुहूर्तस्थायिनः प्रच्युतिरंतर्मुहूर्तस्थास्नुतयात्मलाभ एवोत्पत्तिरिति नाविच्छेदशक्तेः सततावस्थितिप्रसंगो यतः कौटस्थ्यसिद्धिः । कथमन्यदान्यस्योत्पत्तिरंतर्मुहूर्तस्थास्त्रोः प्रच्युतिरतिप्रसंगात् इति चेत्, कथमेकक्षणप्रच्युतिः क्षणांतरस्थितिकत्वेनोत्पत्तिरन्यस्य स्यादिति समः पर्यनुयोगः । सर्वथातिप्रसंगस्य समानत्वात् । तथा च न क्वचिदुत्पत्तिः क्षणार्थानां सिद्ध्येत् विनाशेपि नानुत्पन्नस्य भावस्येति । नित्यवादिनां कूटस्थार्थसिद्धिरबाधिता स्यात् क्षणिकत्व एव बाधकसद्भावात् । स्यादाकृतं क्षणिकवादिनां क्षणादूर्ध्वं प्रच्युतिर्द्वितीयक्षणस्थितिकत्वेनोत्पत्तिः । ततो नोत्पत्तिविपत्तिरहितं न संततमनुषज्यते यतः क्षणिकत्वसिद्धेर्वाप्रतिहता न स्यादिति । तदसत् तथांतर्मुहूर्तस्थितिकत्वस्यापि सिद्धेः सर्वथा विशेषाभावात् । न चैवं क्षणिकत्ववस्तुनो नाशोत्पादौ समं स्यातां प्रथमक्षणभावित्वादस्य, द्वितीयक्षणभावित्वात्तद्विनाशस्य कार्योत्पादस्य कारणविनाशात्मकत्वात् सममेव नाशोत्पादौ तुलांतयोर्नामोन्नामवदिति चेत्, कथं प्रकृतचोद्यपरिहारः ? एकक्षणस्थास्नुतयोत्पाद एव द्वितीयक्षणे विनाश इति नान्यदान्यस्यो - त्पत्तिरन्यस्य विनाशः । सममेव नाशोत्पादयोस्तथा प्रसिद्धिरिति चेत्, ततर्मुहूर्तमात्रस्थायितयोत्पत्तिरेव तदुत्तरकालतया विनाश इति समः समाधिः । नन्वेवं संवत्सरादिस्थितिकमपि ध्यानं कुतो न भवेदिति चेन्न, तथासंभावनाभावात् । यद्धि यथास्थितिकं संभाव्यते तत्तथास्थितिकं शक्यं वक्तुं नान्यथा । न चांतःकरणवृत्तिलक्षणायाश्चिताया निरोधो नियतविषयतयावस्थानलक्षणोंतर्मुहूर्तादूर्ध्वं संभाव्यते मनसोस्मदादिष्वन्यविषयांतरे सजातीये विजातीये वा संक्रमणनिश्चयात्तत्कार्यानुभवस्मरणादेः संचारान्यथानुपपत्तेः । केवलमनुत्तमसंहननस्य चिंता निरोधमनल्पकालमुपलभ्य स्थिरत्वेन प्रक्षीयमाणं वावबुध्योत्तमसंहननस्यांतर्मुहूर्तकालस्तथासाविति संभाव्यते । तथा परमागमप्रामाण्यं चेत्यलं प्रसंगेन । कः पुनरयमंतर्मुहूर्त इत्युच्यते-उक्तपरिमाणोंतर्मुहूर्तः परमागमे ततोत्र न निरूप्यते । ज्ञानमेव ध्यानमिति चेन्न, तस्य व्यग्रत्वात्, ध्यानस्य पुनरव्यग्रत्वात् । तत एवैकाग्रवचनं वैयग्र्यनिवृत्त्यर्थं सूत्रे युज्यते । चिंतानिरोधग्रहणं तत्स्वाभाव्यप्रदर्शनार्थं तत एव ज्ञानवैलक्षण्यं, अन्यथास्य कथं चिंता न स्यात् । ध्यानमित्यधिकृतस्वरूपनिर्देशार्थं । मुहूर्तवचनादहरादिनिवृत्तिस्तथाविधशक्त्यभावात् । अभावो निरोध इति चेन्न, केनचित्पर्यायेणेष्टत्वात् । परोपगतस्य निरूप्यस्याभावस्य प्रमाणाविषयत्वेन निरस्तत्वात् । किं च अभावस्य च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522