Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai
View full book text
________________
४९८
तत्त्वार्थश्लोकवार्तिके
[सू० २७
तत एव ज्ञानात्मनोरव्यतिरेकेपि ज्ञानमेवानित्यमस्तु पुरुषस्तु नित्योस्तु विशेषाभावात् । पुरुषोऽपरिणाम्येवेति चेत्, प्रधानमपि परिणाम मा भूत् । व्यक्तेः परिणामि प्रधानं न शक्तेः सर्वदा स्थास्नुत्वादिति चेत्, तथा पुरुषोपि सर्वथा विशेषाभावात् सर्वस्य सतः परिणामित्वसाधनाच्च, अपरिणामिनि क्रमयौगपद्यविरोधादर्थक्रियानुपपत्तेः सत्त्वस्यैवासंभवात् । ततो द्रष्टात्मा ज्ञानवानेव बाधकाभावादिति न तस्य खरूपेवस्थितिरज्ञानात्मिका काचिदसंप्रज्ञातयोगदशायामुपपद्यते जडात्मभावात् ॥
संप्रज्ञातस्तु यो योगो वृत्तिसारूप्यमात्रकं । संज्ञानात्मक एवेति न विवादोस्ति तावता ॥ ४ ॥ संप्रज्ञातो योगो ज्ञानात्मक एव ' वृत्तिसारूप्यमितरत्रे 'ति वचनात् । वृत्तयः पंचतय्यः तासां विषयसारूप्यमात्रं जिहासोपादित्सारहितमुपेक्षाफलं तद्ध्यानं चित्तवृत्तिनिरोधस्येत्थंभूतस्य भावादिति यद्भाष्यते तत्र ज्ञानात्मत्वमात्रेण नास्ति विवादः सर्वस्य ध्यानस्य ज्ञानात्मकत्वप्रसिद्धेः । ज्ञानमेव स्थिरीभूतं समाधिरिति परैरप्यभिधानात् । विषयसारूप्यं तु वृत्तीनां प्रतिबिंबाधानं तदानुपपन्नमेव क्वचिदमूर्तेर्थे कस्यचित्प्रतिबिंबासंभवात् । तथाहि - न प्रतिबिंबभृतो वृत्तयोऽमूर्तत्वाद्यथा खं यत् प्रतिबिंबभृन्न तदमूर्त दृष्टं यथा दर्पणादि । कर्मभृतश्च वृत्तयस्तस्मान्न प्रतिबिंबभृत इत्यत्र न तावदसिद्धो हेतुर्ज्ञानवृत्तीनां मूर्तत्वानभ्युपगमात् । तदभ्युपगमे बायेंद्रिय प्रत्यक्षत्व प्रसंगात् । मनोवदतिसूक्ष्मत्वादप्रत्यक्षत्वे स्वसंवेदन प्रत्यक्षतापि न स्यात्तद्वदेव । न चाखसंविदिता एव ज्ञानवृत्तयोर्थग्राहित्वविरोधात् । प्रदीपादिवदखसंविदितेपि विषयग्राहित्वं ज्ञानवृत्तीनामविरुद्धमिति चेन्न, वैषम्यात् । प्रदीपादिद्रव्यं हि नार्थग्राहि स्वयमचेतनत्वात् । किं तर्हि ? चक्षुरादे रूपादिग्राहि ज्ञानकारणस्य सहकारितया र्थग्राहीत्युपचर्यते न पुनः परमार्थतस्तत्र तथा ज्ञानवृत्तयः । यस्तु तत्त्वतोर्थग्राहिण इष्यंते ततो न साम्यमुदाहरणस्येति नाखसंविदितत्वसिद्धिस्तासां दर्शनवत् । न च खसंविदितत्वं कस्यचिन्मूर्तस्य दृष्टमिष्टं चातिप्रसंगादित्यमूर्तत्वमेव चित्तवृत्तीनामवस्थितं ततो नासिद्धो हेतुः । नाप्यनैकांतिको विरुद्धो वा विपक्षवृत्त्यभावाद्यतश्चित्तवृत्तीनां प्रतिबिंबभृत्त्वाभावो न सिद्ध्येत् । विषयप्रतिनियमान्यथानुपपत्त्या प्रतिबिंबभृतो ज्ञानवृत्तय इति चेन्न, निराकारत्वेपि विषयप्रतिनियमसिद्धेः पुंसो दर्शनस्य भोगनियमवत् । अथ बुद्धिप्रतिबिंबितमेव नियतमर्थं पुरुषश्चेतयते नान्यथा प्रतिनियमाभावप्रसंगादिति मतं, तर्हि बुद्धिरपि कुतः प्रतिनियतार्थप्रतिबिंबं बिभर्ति न पुनः सकलार्थप्रतिबिंबमिति । नियम हेतुर्वान्यः प्रतिनियताहंकाराभिमतमेवार्थ बुद्धिः प्रतिबिंबयतीति चेत्, किमनया परंपराप्रतिबिंबमंतरेणैवाहंकारप्रतिनियमितमर्थं बुद्धिर्व्यवस्यति मनः ••••• खसामग्री प्रतिनियमादेव सर्वत्र प्रतिनियमसिद्धेरलं प्रतिबिंब कल्पनया । तथा च न चित्तवृत्तीनां सारूप्यं नाम यन्मात्रं संप्रज्ञातयोगः स्यादिति परेषां ध्यानासंभवः । नापि ध्येयं तस्य सूत्रेनुपादानात् । ध्यानासिद्धौ तदसिद्धेश्च । स्याद्वादिनां तु ध्यानं ध्येये विशिष्टे सूत्रितमेव, चिंतानिरोधस्यैकदेशतः कार्यतो वा ध्यानस्यैकाग्रविषयत्वेन विशेषणात् । तथाहि
अनेकत्राप्रधाने वा विषये कल्पितेपि वा । माभूचिंतानिरोधोयमित्येकाग्रे स संस्मृतः ॥ ५ ॥ एकाग्रेणेति वा नानामुखत्वेन निवृत्तये । क्वचिचितानिरोधसाध्यानत्वेन प्रभादिवत् ॥ ६ ॥ एकशब्दः संख्यापदं, अंग्यते तदंगति तस्मिन्निति वाग्रं मुखं, भद्राग्रविप्रेत्यादि निपातनात् अंगेर्गत्यर्थस्य कर्मण्यधिकरणे वा रग्विधानात् । चिंतांतःकरणवृत्तिः अनियतक्रियार्थस्य नियतक्रियाकर्तृत्वेनावस्थानं निरोधः एकमत्रं मुखं यस्य सोयमेकाग्रः चिंताया निरोधः एकाग्रश्वासौ चिंतानिरोधश्च स इत्येकाग्रचिंतानिरोधः । स कुत इति चेत्, एकाग्रत्वेन चिंतानिरोधो वीर्यविशेषात् प्रदीपशिखावत् । वीर्यविशेषो हि दीपशिखाया निर्वातप्रकरणत्वे अंतरंबहिरंगहेतुवशात् परिस्पंदाभावोपपत्तौ विभाव्यते तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522