Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai
________________
नवमोऽध्यायः।
४९९ चिंताया अपि वीर्यातरायविगमविशेषनिराकुलदेशादिहेतुवशादि....."यविशेषः समुन्नीयते । तत एकाग्रत्वं तेन चिंतांतरनिरोधादेकाग्रचिंतानिरोध इति नानामुखत्वेन तस्य निवृत्तिः सिद्धा भवति । अर्थपर्यायवाची वा अग्रशब्दः, अंग्यते इत्यग्रमिति कर्मसाधनस्याग्रशब्दस्यार्थपर्यायवाचित्वोपपत्तेः । एकत्वं च तदग्रं च तदेकाग्रं एकत्वसंख्याविशिष्टोर्थः । प्रधानभूते वा प्रधानवाचिन एकशब्दस्याश्रयणात् । एकाग्रे चिंतानिरोध एकाग्रचिंतानिरोध इति योगविभागात् मयूरव्यंसकादित्वाद्वा वृत्तिः । ततोऽ नेकार्थे गुणभूते वा कल्पनारोपो ध्यानं मा भूत् । नन्वनेकांतवादिनां सर्वस्यार्थस्यैकानेकरूपत्वात् कथमनेकरूपव्यवच्छेदेनैकाग्रध्यानं विधीयत इति कश्चित् , सोप्यनालोचितवचनः, एकस्यार्थस्य पर्यायस्य वा प्रधानभावे ध्यानविषयवचनात् । तत्र द्रव्यस्य पर्यायांतराणां च सत्त्वेपि गुणीभूतत्वाध्यानविषयत्वव्यवच्छेदात् । तत एव चैकशब्दस्य संख्याप्राधान्यवाचिनो व्याख्यानात् । नन्वेवं कल्पनारोपित एव विषये ध्यानमुक्तं स्यात्तत्त्वतः पर्यायमात्रस्य वस्तुनोनुपपत्तेर्द्रव्यमात्रवत्, द्रव्यपर्यायात्मनो जात्यंतरस्य च वस्तुत्वात् नयविषयस्य च वस्त्वेकदेशत्वान्यथा नयस्य विकलादेशत्वविरोधादिति परः । सोपि न नीतिवित् , पर्यायस्य निराकृतद्रव्यपर्यायांतरस्यैव वा वस्तुसाधनान्निरस्तसमस्तपर्यायद्रव्यवत् । न पुनरपेक्षितद्रव्यपर्यायांतरस्य पर्यायस्यावस्तुत्वं तस्य नयविषयतया वस्त्वेकदेशत्वेष्यवस्तुत्वनिराकरणात् । “नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते यतः । न समुद्रोऽसमुद्रो वा समुद्रांशो यथैव हि ॥” इति नियमात् । न च वस्त्वंशादकल्पनारोपित एव वस्तुनोपि तथा प्रसंगात् । स्वरूपालंबनमेव ध्यानमित्यन्ये; तेपि न युक्तवचसः, सर्वथा तत्स्वरूपस्य ध्यानध्येयरूपद्वयविरोधात् । कथंचिदनेकखरूपस्य तदविरोधिध्यानरूपादर्थातरभूते ध्येयरूपे ध्यानं प्रवर्तते इति खतो व्यतिरिक्तमेव द्रव्यपरमाणुं भावपरमाणुं वा समालंबते । न च द्रव्यपरमाणुर्भावपरमाणुर्वार्थपर्ययो न भवति पुद्गलादिद्रव्यपर्यायत्वात् तस्येति चिंतितप्रायं । ततोयं ध्यानशब्दो भावकर्तृकरणसाधनो विवक्षावशात् ध्येयं प्रति व्यावृत्तस्य भावमात्रत्वात् ध्यातिर्ध्यानमिति भवति । करणप्रशंसापरायां वृत्तौ कर्तृसाधनत्वं ध्यायतीति ध्यानं । साधकतमत्वविवक्षायां करणसाधनं ध्यायत्यनेन ज्ञानावरणवीर्यातरायविरामविशेषोद्भूतशक्तिविशेषेणेति ध्यानमिति । एकांतकल्पनायां दोषविधानमुक्तं, प्रथमसूत्रे ज्ञानशब्दस्य करणादिसाधनत्वसमर्थनात् निर्विषयस्य ध्यानस्य भावसाधनत्वाद्यनुपपत्तेश्च । भाववंतमंतरेण भावस्यासंभवात् कर्तुरभावे करणत्वानुपपत्तेः । सर्वथैकांते कारकव्यवस्थासंभवस्य चोक्तत्वात् । न च विकल्पारोपिते विषये ध्यानमित्येकांतवादोपि श्रेयान् , निर्विषयध्यानस्यापि एकत्वप्रसंगात् कुमारीपरिकल्पितभोज्ये काल्पनिकभोजनवत् । न च परिकल्पितात् ध्यानाध्यातुः फलमकल्पितरूपमुपपद्यते कल्पितभोजनादकल्पिततृप्तिवत् । ततो नैकांतवादिनां ध्यानध्येयव्यवस्था, प्रमाणविरोधात् वयमिष्टतत्त्वनिर्णयायोगात् ध्यातुरभावाच्च । न हि कूटस्थपुरुषो ध्याता पूर्वापरस्वभावत्यागोपादानहीनत्वात् क्षणिकचित्तवत् । नापि प्रधानं तस्याचेतनत्वात् कायवत् । महदादिव्यक्तात्मा ध्यातेति चेन्न, तस्य प्रधानव्यतिरेकेणाभावात् । कल्पितस्य चावस्तुत्वात्संतानवत् । स्याद्वादिनां तु ध्यातास्ति, तस्योत्तमसंहननत्वविशिष्टस्य मूर्तिमत्त्वात् । तथा चाह
प्रोक्तं संहननं यस्य भवेदुत्तममिष्यते । तस्य ध्यानं परं मुक्तिकारणं नेतरस्य तत् ॥ ७ ॥
आद्यं संहननं त्रयमुत्तमसंहननं सोयमुत्तमसंहननस्तस्य ध्यानं न पुनरनुत्तमसंहननस्य, तस्य ध्यानशत्त्यभावात् । विहितपवनविजयस्यानुत्तमसंहननस्यापि ध्यानसामर्थ्य मनोविजयप्राप्तेरिति चेत् , स परपवनविजयः कुतः ? गुरूपदिष्टाभ्यासातिशयादिति चेन्न, तदभ्यासस्यैवानुत्तमसंहननेन विधातुमशक्यत्वात् । तदभ्यासे पीडोत्पत्तरार्तध्यानप्रसंगाच्च । पवनधारणायामेवावहितमनसोऽन्यध्येये प्रवृत्त्यनुप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522