Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai
________________
४९४
तत्त्वार्थश्लोकवार्तिके
Jain Education International
किं पुनश्चारित्रमित्याह;—
सामायिक छेदोपस्थापनापरिहारविशुद्धि सूक्ष्मसांपराययथाख्यातमिति चारित्रम् ॥ १८ ॥
"
सामायिकशब्दोतीतार्थः । सामायिकमिति वा समासविषयत्वात् अयंतीत्यायाः सत्त्वघात हेतवोऽनर्थाः संगता आयाः समायाः सम्यग्वा आयाः समायास्तेषु भवं सामायिकं समायाः प्रयोजनमस्येति च सामायिकमिति समासविषयत्वं सामायिकस्यावस्थानस्य । तच्च सर्वसावद्ययोगप्रत्याख्यानपरं । गुप्तिप्रसंग इति चेन्न, इह मानसप्रवृत्तिभावात् । समितिप्रसंग इति चेन्न तत्र यतस्य प्रवृत्त्युपदेशात् । धर्मप्रसंग इति चेन्न, अत्रेतिवचनस्य कृत्स्नकर्मक्षयहेतुत्वज्ञापनार्थत्वात् । प्रमादकृतानर्थप्रबंध विलोपे सम्यक् प्रतिक्रिया छेदोपस्थापना, विकल्पनिवृत्तिर्वा । परिहारेण विशिष्टा शुद्धिर्यस्मिन् तत्परिहारविशुद्धिचारित्रं । तत्पुनस्त्रिंशद्वर्षजातस्य संवत्सरपृथक्त्वं तीर्थकरपादमूलसेविनः प्रत्याख्याननामधेयपूर्वपारावारपारंगतस्य जंतुनिरोधप्रादुर्भावकालपरि माणजन्मयोनिदेशद्रव्यखभावविधानज्ञस्य प्रमादरहितस्य वा महावीर्यस्य परमनिर्जरस्यातिदुष्कर चर्यानुष्ठायिनः तिस्रः संध्या वर्जयित्वा द्विगव्यूतिगामिनः संपद्यते नान्यस्य मनागपि तद्विपरीतस्येति प्रतिपत्तव्यं । अतिसूक्ष्मकषायत्वात् सूक्ष्मसांपरायं तस्य गुप्तिस मित्योरंतर्भाव इति चेन्न, तद्भावेपि गुणनिमित्तविशेषाश्रयणात् । लोभसंज्वलनाख्यसांपरायः सूक्ष्मोस्मिन् भवतीति विशेष आश्रितः । निरवशेषशांतक्षीणमोहत्वाद्यथाख्यातचारित्रं, यथा ख्यातमिव आत्मखभावाव्यतिक्रमेण ख्यातत्वात् । इतेरुपादानं ततः कर्मसमाप्तेर्ज्ञापनार्थत्वात् । यथाख्यातचारित्रसिद्धा सकलकर्मक्षयपरिसमाप्तिः । सामायिकादीनामुत्तरोत्तरगुणप्रकर्षख्यापनार्थमानुपूर्व्यवचनं, प्राच्यचारित्रद्वय विशुद्धेरल्पत्वादुत्तरचारित्रापेक्षया परिहारविशुद्धि चारित्रस्य ततोनंतगुणजघन्यशुद्धित्वात् । तस्यैव तदनंतगुणोत्कृष्ट विशुद्धित्वात् पूर्वचारित्रद्वयस्य तदनंतगुणोत्कृष्टविशुद्धित्वात् । ततः सूक्ष्मसांपरायस्यानंतगुणजघन्यविशुद्धित्वात् तस्यैव तदनंतगुणोत्कृष्टत्वात्, ततो यथाख्यातचारित्रस्य संपूर्णविशुद्धित्वात् । एतदेवाह -
सामायिकादि चारित्रं सूत्रितं पंचधा ततः । संवरः कर्मणां ज्ञेयो चारित्रापेक्षजन्मनां ॥ १ ॥ धर्मातर्भूतमप्येतत्संयमग्रहणादिह । पुनरुक्तं प्रधानत्वख्यातये निर्वृतिं प्रति ॥ २॥ अथ तपोवचनं धर्मातर्भूतं तद्विविधं बाह्यमाभ्यंतरं च तत्र बाह्यभेदप्रतिपत्त्यर्थमाह; - अनशनावमौदर्यवृत्तिपरिसंख्यानरस परित्यागविविक्तशय्यासनकायक्लेशाः बाह्यं तपः ॥ १९ ॥
दृष्टफलानपेक्षं संयमप्रसिद्धिरागोच्छेदकर्मविनाशध्यानानागमावाहयर्थमनशनं । तद्विविधं अवधृतानवधृतकालभेदात् । संयमप्रजागर दोषप्रशमनसंतोषखाध्यायमुखसिद्ध्यर्थमवमौदर्यं । एकागारसप्तवेश्मैकरसार्धग्रासादिविषयसंकल्पो वृत्तिपरिसंख्यानं । दांतेंद्रियत्वते जोहानिसंयमोपरोधव्यावृत्त्याद्यर्थं घृतादिरसपरित्यजनं रसपरित्यागः । रसवत्परित्याग इति चेन्न, मतोर्लुप्तनिर्दिष्टत्वात् शुक्लपट इत्यादिवत् । अव्यतिरेकाद्वा तद्वत्संप्रत्ययः । सर्वत्यागप्रसंग इति चेन्न प्रकर्षगतेः । प्रकृष्टरसस्यैव द्रव्यस्य त्यागसंप्रत्ययात् । प्रतिज्ञातगंधत्यागस्य प्रकृष्टगंधकस्तूरिकादित्यागवत् । कश्चिदाह - अनशनावमैौदर्यरसपरित्यागानां वृत्तिपरिसंख्यानाधारात् पृथनिर्देशः । तद्विकल्पनिर्देश इति चेन्न, अनवस्थानात् । तं प्रत्याह नवा, कायचेष्टा विषयगणनार्थत्वाद्वृत्तिपरिसंख्यानस्य । अनशनस्याभ्यवहर्तव्यनिवृत्तिरूपत्वादव मौदर्यरसपरित्यागयोरभ्यवहर्तव्यैकदेशनिवृत्तिपरत्वात्ततो भेदप्रसिद्धेः । आबाधात्ययब्रह्मचर्यखाध्यायध्यानादिप्रासेद्ध्यर्थं
[ सू० १९
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522