Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai
________________
नवमोऽध्यायः। दर्शनमोहांतराययोरदर्शनालाभौ ॥ १४ ॥ किं पुनरदर्शनमत्रेत्याहअदर्शनमिहार्थानामश्रद्धानं हि तद्भवेत् । सति दर्शनमोहेऽस्य न ज्ञानात् प्रागदर्शनं ॥१॥ विशिष्टकारणनिर्देशादवध्यादिदर्शनसंदेहाभावः । अंतराय इति सामान्यनिर्देशेपि सामर्थ्याद्विशेषसंप्रत्ययः । कः पुनरसौ विशेष इत्याह;
अंतरायोत्र लाभस्य तद्योग्योर्थाद्विशेषतः । कारणस्य विशेषाद्धि विशेषः कार्यगः स्थितः ॥२॥
तेन दर्शनमोहोदये तत्त्वार्थाश्रद्धानलक्षणमदर्शनं, लाभांतरायोदये चालाभ इति प्रकाशितं भवति ॥ चारित्रमोहे नाम्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥ १५ ॥
निषद्यापरीषहस्य मोहोदयनिमित्तत्वं प्राणिपीडार्थत्वात् , पुंवेदोदयादिनिमित्तत्वान्नाग्यादीनामिति चारित्रमोहोदयनिबंधना एते । तदेवाहनाम्याद्याः सप्त चारित्रमोहे सति परीपहाः । सामान्यतो विशेषाच तद्विशेषेषु तेर्थतः॥१॥ ज्ञानावरणमोहांतरायसंभूतयो मताः । इत्येकादश ते तेषामभावे तत्कचित्सदा ॥२॥
वेदनीये शेषाः॥१६॥ उक्तादन्यनिर्देशः शेष इति । ते च क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरीपहाः । किमेकाकिन्येव वेदनीयेमी भवत्युत सहकारापेक्षे सतीत्याशंकायामिदमाह
शेषाः स्युर्वेदनीये ते समग्रसहकारिणि । इति सर्वत्र विज्ञेयमसाधारणकारणं ॥१॥ ननु ज्ञानावरणे इत्यादिसूत्रेषु विभक्तिविशेषे निमित्तात्कर्मसंयोग इति चेन्न, तद्योगाभावात् । न हि यथा चर्मणि द्वीपिनं हंतीत्यत्र कर्मसंयोगस्तथानास्ति ततोयं सन्निर्देशस्तदुपलक्षणत्वात् गोषु दुह्यमानासु गत इत्यादिवत् ॥ अत्रैकस्मिन्नात्मनि सकृत् कियंतः परीषहाः संभवंतीत्याह;
एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशतः ॥ १७ ॥ आङभिविध्यर्थः । शीतोष्णशय्यानिषद्याचर्यानामसहभावाच्चैकानविंशतिसंभवः । प्रज्ञाज्ञानयोर्विरोधादन्यतराभावे अष्टादशप्रसंग इति चेन्न, अपेक्षातो विरोधाभावात् । श्रुतज्ञानापेक्षया हि प्रज्ञाप्रकर्षे सत्यवध्याद्यभावापेक्षयाऽज्ञानोपपत्तेः । दंशमशकस्य युगपत्प्रवृत्तेरेकोनविंशतिविकल्प इति चेन्न, प्रकारार्थत्वात् । मशक एवेत्ययं परीषहोन्यथातिप्रसंगात् । दंशग्रहणात्तुल्यजातीय इति चेन्न, श्रुतिविरोधात् । न हि दंशशब्दः प्रकारमभिधत्ते । मशकशब्दोपि तत्तुल्यमिति चेन्न, अन्यतरेण परीषहस्य निरूपितत्वात् । न हि दंशशब्देन निरूपिते परीषहे मशकशब्दग्रहणं तदर्थमेव युक्तमतः प्रकारोांतर इति निश्चयः । चर्यानिषद्याशय्यानामरतेरविशेषादेकानविंशतिवचनमिति चेन्न, अरतौ परीषहजयाभावात् । न हि चर्यानिषद्याशय्यानामरतेरेकत्वादेकत्वं युक्तं तत्र अरतौ परीषहजयायोगात् , तत्कृतपीडासहनात् । परीषहजयेन्यत्वमेव तेषामिति द्वाविंशतिवचनमेव युक्तं । तस्मात्
सकृदेकादयो भाज्याः कचिदेकानविंशतिः । विंशत्यादेरसंभूतेविरोधादन्यथापि वा ॥१॥ इत्युक्तेर्नियमाभावः सिद्धस्तेषां समुद्भवे । सहकारिविहीनत्वप्रोक्तहेतोरशक्तितः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522