Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 499
________________ ४९० तत्त्वार्थश्लोकवार्तिके [सू०८ स यथायोगं देशतः संवरस्य हेतु वेदसंशयमेव असंयतसम्यग्दृष्ट्यादिषु तत्संभवात् । तथाहि असंयतसम्यग्दृष्टौ तावदनंतानुबंधिक्रोधादिप्रतिपक्षभूताः क्षमादयः संभवत्येव । संयतासंयते वानंतानुबं. ध्यप्रत्याख्यानावरणक्रोधादिविपक्षाः, प्रमत्तसंयतादिषु सूक्ष्मसांपरायांतेषु पुनरनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानावरणप्रतिबंधिनः, उपशांतकषायादिषु समस्तक्रोधादिसंपन्नाः संगच्छंते विरोधाभावात् । एवं संयमादयोपि प्रमत्तसंयतादिषु यथायोगं संभवंतः प्रतिपत्तव्याः। ते च स्वप्रतिपक्षहेतुकासवनिरोधनिबंधनत्वाद्देशसंवरस्य हेतवः स्युः ॥ अथानुप्रेक्षाप्रतिपादनार्थमाह;अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदु र्लभधर्मस्वाख्यातत्वानुचिंतनमनुप्रेक्षाः ॥७॥ उपात्तानुपात्तद्रव्यसंयोगव्यभिचारखभावोऽनित्यत्वं, क्षुधितव्याघ्राभिद्रुतमृगशावकवजंतोर्जरामृत्युरुजांतरपारेत्राणाभावोऽशरणत्वं, द्रव्यादिनिमित्तादात्मनो भवांतरावाप्तिः संसारः, जन्मजरामरणावृत्तिमहादुःखानुभवनं प्रति सहायानपेक्षत्वमेकत्वं, शरीरव्यतिरेको लक्षणभेदोऽन्यत्वं, अशुभकारणत्वादिभिरशुचित्वं, आस्रवसंवरनिर्जराग्रहणमनर्थकमुक्तत्वादिति चेन्न, तद्गुणदोषान्वेषणपरत्वादिह तद्ब्रहणस्य । लोकसंस्थानादिविधिर्व्याख्यातः, रत्नत्रय(त्रस)भावादिलाभस्य कृच्छ्रपतिपत्तिबर्बोधिदुर्लभत्वं, जीवस्थानगुणस्थानानां गत्यादिषु मार्गणालक्षणो धर्मो व्याख्यातः । गतींद्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्यामव्यसम्यक्त्वसंज्ञाहारकेषु मार्गणा । खाख्यात इति चेन्न, प्रादिवृत्तेः शोभनमाख्यात इति । अनुप्रेक्षा इति भावसाधनत्वे बहुवचनविरोधः, कर्मसाधनत्वे सामानाधिकरण्याभाव इति चेन्न वा, कृदभिहितस्य भावस्य द्रव्यवद्भावात् सामानाधिकरण्यसिद्धेश्चोभयोः कर्मसाधनत्वात् । मध्येनुप्रेक्षावचनमुभयनिमित्तत्वात् । धर्मपरीषहजययोर्निमित्तभूता ह्यनुप्रेक्षास्तन्मध्येऽभिधीयते । कुतस्ताः कथ्यंत इत्याह; अनुप्रेक्षाः प्रकीयते नित्यत्वाद्यनुचिंतनं । द्वादशात्राननुप्रेक्षाविपक्षत्वान्मुनीश्वरैः ॥ १ ॥ परिकल्पिता एवानित्यत्वादयो धर्मास्तेषामात्मनि शरीरादिषु च परमार्थतोसत्त्वादित्यपरे तान् प्रत्याह;अनित्यत्वादयो धर्माः संत्यात्मादिषु तात्त्विकाः। तथा साधनसद्भावाः सर्वेषां शेषतत्त्ववत्॥२॥ ततोनुचिंतनं तेषां नासतां कल्पितात्मनां । नाप्यनर्थकमिष्टस्य संवरस्य प्रसिद्धितः॥३॥ अथानुप्रेक्षानंतरं परीषहजयं प्रस्तुवानः सर्वपरीपहाणां सहनं तेत्र किमर्थं सोढव्या इत्याह; मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ॥८॥ परीषहा इति महत्वादन्वर्थसंज्ञा । प्रकरणात् संवरमार्गप्रतिपत्तिः । तदच्यवनाओं निर्जरार्थश्च परीषहजयः । तत्र मार्गाच्यवनार्थत्वं कथमस्येत्याह मार्गाच्यवनहेतुत्वं परीषहजयख सत् । परीषहाजये मार्गच्यवनस्य प्रतीतितः ॥१॥ निर्जरार्थत्वं कथमित्याह;निर्जराकारणत्वं च तपःसिद्धिपरत्वतः । तदभावे तपोलोपानिर्जरा कातिशक्तितः ॥२॥ परिषोढव्यतां प्राप्तास्तसादेते परीषहाः । परीपहजयोत्थानामास्रवाणां विरोधतः ॥३॥ के पुनस्ते परीषहा इत्याह; Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522