Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 497
________________ ४८८ तत्त्वार्थश्लोकवार्तिके [सू०४ धर्मोपकरणानां ग्रहणविसर्जनं प्रति यतनमादाननिक्षेपणासमितिः । जीवाविरोधेनांगमलनिहरणं समुत्सर्गसमितिः । वाकायगुप्तिरियमपीति चेन्न, तत्र सर्वकालविशेषे सति सर्वनिग्रहोपपत्तेः । ननु च पात्राभावात् पाणिपुटाहाराणां संवराभाव इति चेन्न, पात्रग्रहणात्परिग्रहदोषात् दैन्यप्रसंगाच्च । अन्नवत्तप्रसंग इति चेन्न, तेन विनाभावात् चिरकालं तपश्चरणस्य । नैवं तस्य पात्रादि विनाभाव इति न परमर्षिभिः पात्रादि ग्राह्यं प्रासुकान्नग्रहणवत् । कुतः समितीनां संवरत्वमित्याह सम्यक्प्रभृतयः पंचेाद्याः समितयः स्मृताः । असंयमभवस्यामिरास्रवस्य निरोधनं ॥१॥ तद्विपक्षत्वतस्तासामिति देशेन संवरः । समितौ वर्तमानानां संयतानां यथायथं ॥२॥ अथ धर्मप्रतिपादनार्थमाह;उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि धर्मः ॥६॥ प्रवर्तमानस्य प्रमादपरिहारार्थ धर्मवचनं, क्रोधोत्पत्तिनिमित्ताविसह्याक्रोशादिसंभवे कालुप्याभावः क्षमा, जात्यादिमदावेशाद्यभिमानाभावो मार्दवं, योगस्यावक्रतार्जवं, प्रकर्षप्राप्तलोभनिवृत्तिः शौचं, गुप्तावंतर्भाव इति चेन्न, तत्र मानसपरिस्पंदप्रतिषेधात् । आकिंचन्येऽवरोध इति चेन्न, तस्य नैर्मल्यप्रधानत्वात् । तच्चतुर्विधं शौचं ततोऽन्यदेव । कुत इति चेत् , जीवितारोग्येंद्रियोपभोगभेदात् तद्विषयप्राप्तप्रकर्षलोभनिवृत्तेः शौचलक्षणत्वात् । सत्सु साधुवचनं सत्यं । भाषासमितावंतर्भाव इति चेन्न, तत्र साध्वसाधुभाषाव्यवहारे हितमितार्थत्वात् । बहपि वक्तव्यं, अन्यथानर्थप्रसंगात् । न भाषादिनिवृत्तिः संयमो गुप्त्यंतर्भावात् । नापि कायादिप्रवृत्तिर्विशिष्टा संयमः, समितिप्रसंगात् । त्रसस्थावरबधात् प्रतिषेध आत्यंतिकः संयम इति चेन्न, परिहारविशुद्धिचारित्रंतर्भावात् । कस्तर्हि संयमः ! समितिषु वर्तमानस्य प्राणींद्रियपरिहारः संयमः, अतोपहृतसंयमभेदसिद्धिः । संयमो हि द्विविधः, उपेक्षासंयमो अपहृतसंयमश्चेति । देशकालविधानज्ञस्य परानुरोधनोत्सृष्टकायस्य त्रिधा गुप्तस्य रागद्वेषानभिषंगलक्षण उपेक्षासंयमः । अपहृतसंयमस्त्रिविधः उत्कृष्टो मध्यमो जघन्यश्चेति । तत्र प्रासुकवसत्याहारमात्रबाह्यसाधनस्य खाधीनेतरज्ञानचरणकरणस्य बाह्मजंतूपनिपाते सत्यप्यात्मानं ततोपहृत्य जीवान् परिपालयत उत्कृष्टः, मृदुना प्रमृज्य जंतूनपहरतो मध्यमः, उपकरणांतरेच्छया जघन्यः । तत्प्रतिपादनार्थः शुद्ध्यष्टकोपदेशः । भावशुद्ध्यादयोष्टौ शुद्धयः । तत्र भावशुद्धिः कर्मक्षयोपशमजनिता मोक्षमार्गरुच्याहितप्रसादा रागाद्युपप्लबरहिता, तस्यां सत्यामाचारः प्रकाशते परिशुद्धभित्तिगतचित्रकर्मवत् । कायशुद्धिः निरावरणाभरणा निरस्तसंस्कारा यथाजातमलधारिणी निराकृतांगविकारा सर्वत्र प्रयतवृत्तिः प्रशमसुखं मूर्तिमंतं प्रदर्शयंती, तस्यां सत्यां न खतोस्य भयं उपजायते नाप्यन्यतस्तस्य कारणाभावात् । विनयशुद्धिः अहंदादिषु परमगुरुषु यथार्हपूजाप्रवणा ज्ञानादिषु च यथाविधि भक्तियुक्ता गुरोः सर्वत्रानुकूलवृत्तिः प्रश्नखाध्यायवाचना कथाविज्ञापनादिषु प्रतिपत्तिकुशला देशकालभावावबोधनिपुणा सदाचार्यमतानुचारिणी, तन्मूलाः सर्वसंपदः । ईर्यापथशुद्धिः नानाविधजीवस्थानयोन्याश्रयावबोधजनितप्रयत्नपरिहृतजंतुपीडाज्ञानादित्यस्खेंद्रियप्रकाशनिरीक्षितदेशगामिनी द्रुतविलंबितसंभ्रांता विस्मितलीलाविकारदिगंतरावलोकनादि विरहितगमना, तस्यां सत्यां संयमः प्रतिष्ठितो भवति विभव इव सुनीतौ । भिक्षाशुद्धिः परीक्षितोभयप्रचारा प्रमृष्टपूर्वापरखांगदेशविधाना आचारसूत्रोक्तकालदेशप्रवृत्तिप्रतिपत्तिकुशला लाभालाभमानप्रतिमानसमानमनोवृत्तिः लोकगर्हितकुलपरिवर्जनपरा चंद्रगतिरिव हीनाधिकगृहा विशिष्टोपस्थाना दीनानाथदानशा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522