Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 496
________________ सकैः क्रियत इत्याह ――― नवमोऽध्यायः । स गुप्तसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥ २ ॥ संसारकारणगोपनाद्गुप्तिः, सम्यगयनं समितिः, इष्टे स्थाने धत्ते इति धर्मः खभावानुचिंतनमनुप्रेक्षा, परिषह्यंते इति परीषहास्तेषां जयो न्यक्कारः, चारित्रशब्दो व्याख्यातार्थः । संवृण्वतो गुप्यादिभिः गुप्त्याद इति चास्रवनिमित्तकर्मसंवरणात् । स इति वचनं गुत्यादिभिः साक्षात्संबंधनार्थं ॥ कुतो गुत्यादिभिर्गुत्यादय एव वा संवरः स्यादित्याह ४८७ स चास्रवनिरोधः स्याद्गुत्यादिभिरुदीरितैः । तत्कारणविपक्षत्वात्तेषामिति विनिश्चयः ॥ १ ॥ तत्र गुप्तीनां तत्कारणविपक्षत्वं न तावदसिद्धं, कर्मागमनकारणानां कायादियोगानां विरोधिनः स्वरूपनिश्चयात् । तथा समित्यादीनां वा समित्यादितत्कारणविरुद्धभावनया प्रतिपादनात् ॥ अथ धर्मेन्तर्भूतेन तपसा किं संवर एव क्रियते किं वान्यदपि किंचिदित्यारेकायामिदमाह ; - तपसा निर्जरा च ॥३॥ धर्मेंतर्भावात् पृथग्ग्रहणमनर्थकमिति चेन्न, निर्जराकरणत्वख्यापनार्थत्वात् तपसः । प्रधानप्रतिपत्त्यर्थं च । संवरनिमित्तत्वसमुच्चयार्थश्चशब्दः । तपसोभ्युदयहेतुत्वान्निर्जरांगत्वाभाव इति चेन्न, एकस्यानेककार्यारंभदर्शनात् । गुणप्रधानफलोपपत्तेर्वा कृषीवलवत् । केन हेतुना तपसा निर्जरा च स्यात् संवरश्रेति सूत्रितं । संचितापूर्वाकर्माप्तिविपक्षत्वेन तस्य नु ॥ १ ॥ तपो पूर्वदोष निरोधि संचितदोषविनाशि च लंघनादिवत् प्रसिद्धं । ततस्तेन संवरनिर्नरयोः क्रिया न विरुध्यते ॥ अथ का गुप्तिरित्याह; - Jain Education International सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ योगशब्दो व्याख्यातार्थः, प्राकाम्याभावो निग्रहः, सम्यगिति विशेषणं सत्कारलोकपरिपंत्याद्याकांक्षानिवृत्त्यर्थं । तस्मात् कायादिनिरोधात्तन्निमित्तकर्मानास्रवणात् संवरप्रसिद्धिः । कीदृक् संवरस्तया विधीयत इत्याह योगानां निग्रहः सम्यग्गुप्तिस्त्रेधा तयोत्तमः । संवरो बंधहेतूनां प्रतिपक्षस्वभावया ॥ १ ॥ कः पुनः सकलं संवरं समासादयतीत्याह - अयोगः केवली सर्व संवरं प्रतिपद्यते । द्रव्यतो भावतश्चेति परं श्रेयः समश्नुते ॥ २ ॥ काः समितय इत्याह ; ईर्या भाषणादाननिक्षेपोत्सर्गाः समितयः ॥ ५ ॥ सम्यग्ग्रहणेनानुवर्तमानेन प्रत्येकमभिसंबंधः सम्यगीर्येत्यादिः । । समितिरित्यन्वर्थसंज्ञा वा तांत्रिका पंचानां । तत्र चर्यायां जीवबाधापरिहार ईर्यासमितिः, सूक्ष्मबादरैकद्वित्रिचतुरिंद्रियसंज्ञ्य संज्ञिपंचेंद्रियपर्याप्त का पर्याप्तकभेदाच्चतुर्दशजीवस्थानानि तद्विकल्पजीवबाधापरिहरणं समीर्यासमितिरित्यर्थः । हितमितासंदिग्धाभिधानं भाषासमितिः । अन्नादावुद्गमादिदोषवर्जनमेषणासमितिः, उद्गमादयो हि दोषाः - उद्गमोत्पादनैषणसंयोजनप्रमाणांगारकारणधूमप्रत्ययास्तेषां नवभिरपि कोटिभिर्वर्जनमेषणासमितिरित्यर्थः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522