Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 489
________________ ४८० [ सू० १४ रणमादेयनाम, निष्प्रभशरीरकारणमनादेयतानाम, पुण्यगुणख्यापनकारणं यशस्कीर्तिनाम, यशो गुणविशेषः कीर्तिस्तस्य शब्दनमिति न तयोरनर्थीतरत्वं । तत्प्रत्यनीकफलमयशस्कीर्तिनाम, आर्हत्यनिमित्तकारणं तीर्थकरत्वं, गणधरत्वादीनामुपसंख्यानमिति चेन्न, अन्यनिमित्तत्वात् । गणधरत्वस्य श्रुतज्ञानावरणवीर्यांतरायक्षयोपशमप्रकर्षहेतुकत्वात् चक्रवर्तित्वादेरुच्चैर्गोत्रोदयनिमित्तकत्वात् । तदेव तीर्थकर - त्वस्यापीति चेत् न, तीर्थकरत्वस्य हि तन्निमित्तत्वे गणधरस्य तत्प्रसंगश्चक्रधरादेश्च न च तदस्ति, ततोर्थौतरनिमित्तं, यत्तदर्थांतरं । तत्तीर्थकरनामैव । घातिक्षयस्य मुंड ( सामान्य ) केवल्यादेरपि भावान्न तन्निबंधनं तस्य शंकनीयं, छत्रत्रयादिपरमविभूतिफलस्य ततोसंभवनिश्चयात् । ननु च विहायोगत्यंतानां प्रत्येकशरीरादिभिरेकवाक्यत्वाभावः । कुत इति चेत्, पूर्वेषां प्रतिपक्षविरहादेकवाक्यत्वाभावः । प्रधानत्वात्तीर्थकरत्वस्य पृथग्ग्रहणं, अन्यत्वाच्च प्रत्येकशरीरादिभिरेकवाक्यत्वाभावः प्रत्येतव्यः ॥ तत्त्वार्थश्लोकवार्तिके प्राधान्यं सर्वनामभ्यः शतेभ्यः शुद्धिजन्मनः । बोध्यं तीर्थकरत्वस्य भवांते फलदायिनः ||२|| गोत्रोत्तर प्रकृतिबंधभेदप्रकाशनार्थमाह; उच्चैनींचैश्च ॥ १२ ॥ गोत्रं द्विविधमुच्चैर्नीचैरिति विशेषणात् । यस्योदयात् लोके पूजितेषु कुलेषु जन्म तदुच्चैर्गोत्रं, गर्हि - तेषु यत्कृतं तन्नीचैर्गोत्रं ॥ कुतस्तदेवंविधं सिद्धमित्याह उच्चैचैr गोत्रं स्याद्विभेद देहिनामिह । तथा संशब्दनस्यान्यहेतुहीनस्य सिद्धितः ॥ १ ॥ तथांतरायोत्तरप्रकृतिबंधावबोधनार्थमाह ; दानलाभभोगोपभोगवीर्याणाम् ॥ १३ ॥ दानादीनामंतरायापेक्षयार्थव्यतिरेकनिर्देशः, अंतराय इत्यनुवर्तनात् । दानादिपरिणामव्याघातहेतुत्वात्तद्व्यपदेशः । भोगोपभोगयोरविशेष इति चेन्न, गंधादिशयनादिभेदतस्तद्भेदसिद्धेः । कुतस्ते दानाद्यंतरायाः प्रसिद्धा इत्याह; - दानादीनां तु पंचानामंतरायाः प्रसूत्रिताः । पंच दानादिविघ्नस्य तत्कार्यस्य विशेषतः ॥ १ ॥ उक्तमेव प्रकृतिबंध प्रपंचमुपसंहरन्नाह ; एवं प्रकृतिभिर्बंधः कर्मभिर्विनिवेदितः । आद्यः प्रकृतिबंधोत्र जीवस्यानेकधा स्थितः ॥ २ ॥ तदुत्तरप्रकृति वदुत्तरोत्तर प्रकृतीनामपि प्रकृतिबंधव्यपदेशात् सामान्यतो विशेषतश्च प्रकृतिबंधः स्थित्यादिबंधापेक्षयान्य एवानेकधोक्तः । तथा च Jain Education International यावतामनुभवोस्तु फलानां दृष्टहेतुघटनाच्च जनानां । तावती गणना प्रकृतीस्ताः कर्मणामनुमिनोतु महात्मा ॥ ३ ॥ इति अष्टमाध्यायस्य प्रथममाह्निकम् । आदितस्तिसृणामंतरायस्य च त्रिंशत्सागरोपमकोटी कोट्यः परा स्थितिः ॥ १४ ॥ आदित इति वचनं मध्यांतनिवृत्त्यर्थं, तिसृणामितिवचनमवधारणार्थं, अंतरायस्य चेति क्रमभेदि - For Private & Personal Use Only • www.jainelibrary.org

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522