Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 487
________________ तत्त्वार्थश्लोकवार्तिके Jain Education International ४७८ अथ दर्शनावरणं नवभेदं कथमित्याह ; चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च ॥ ७ ॥ चक्षुरादीनां दर्शनावरणसंबंधाद्भेदनिर्देशः । चक्षुरचक्षुरवधिकेवलानां दर्शनावरणानीति । मदखेदक्लमविनोदनार्थः खापो निद्रा, उपर्युपरि तद्वृत्तिर्निद्रानिद्रा, प्रचलयत्यात्मानमिति प्रचला, पौनःपुन्येन सैवाहितवृत्तिः प्रचलाप्रचला, स्वप्ने यया वीर्यविशेषाविर्भावः सा स्त्यानगृद्धिः स्त्याने खमे गृध्यति दीप्यते रौद्रबहुकर्म करोति यदुदयादित्यर्थः । नानाधिकरणाभावाद्वीप्सानुपपत्तिरिति चेन्न, कालादिभेदेन तद्भेदसिद्धेः, पटुर्भवान् पटुदेशीवत् पटुतर एष स इति यथा । देशभेदादपि मथुरायां दृष्टस्य पुनः पाटलिपुत्रे दृश्यमानस्य तत्त्वत्वत् । तत्रैकस्मिन्नप्यात्मनि कालदेशभेदात् नानात्वभाजि वीप्सा युक्ता निद्रानिद्रा प्रचलाप्रचलेति । आभीक्ष्ण्ये वा द्वित्वप्रसिद्धिः यथा गेहं गेहमनुप्रवेशमास्त इति । निद्रादिकर्म सद्योदयात् निद्रादिपरिणामसिद्धिः । निद्रादीनामभेदेनाभिसंबंध विरोध इति चेन्न, विवक्षातः संबंधात् । चक्षुरचक्षुर्दर्शनावरणोदयाच्चक्षुरादींद्रियालोचनविकलः, अवधिदर्शनावरणोदयादवधिदर्शनविप्रयुक्तः, केवलदर्शनावरणोदयादनाविर्भूत केवलदर्शनः, निद्रानिद्रानिद्रोदयात्तमो महातमोवस्था, प्रचला - प्रचलाप्रचलोदयाच्चलनातिचलनभावः । एतदेवाह - चतुर्णां चक्षुरादीनां दर्शनानां चतुर्विधं । निद्रादयश्च पंचेति नव प्रकृतयोस्य ताः ॥ १ ॥ चतुर्णां हि चक्षुरादिदर्शनानामावरणाच्चतुर्विधमवबोध्यं तदात्रियमाणभेदात् तद्भेदसिद्धेः । निद्रादयश्च पंच दर्शनावरणानीति भेदाभेदाभ्यामभिसंबंधोत्राविरुद्ध एवेत्युक्तं ॥ अथ तृतीयस्योत्तरप्रकृतिबंधस्य भेदप्रदर्शनार्थमाह ;सदसद्ये ॥ ८ ॥ यस्योदयाद्देवादिगतिषु शारीरमानससुखप्राप्तिस्तत्सद्वेद्यं यत्फलं दुःखमनेकविधं तदसद्वेद्यं । तदेवो - पदर्शयति द्वेधातु सदसद्वे सातेतरकृतादिमे । प्रकृती वेदनीयस्य नान्यथा तद्व्यवस्थितिः ॥ १ ॥ अथ चतुर्थस्योत्तरप्रकृतिबंधस्य भेदोपदर्शनार्थमाह ;दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिदिन वषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकपायकपाय हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानसंज्वलन विकल्पाचैकशः क्रोधमानमायालोभाः ॥ ९ ॥ दर्शनादिभिस्त्रिद्विनवषोडशभेदानां यथासंख्येन संबंध: । दर्शनमोहनीयं त्रिभेदं, चारित्रमोहनीयं द्विभेद, अकषायवेदनीयं नवविधं, कपायवेदनीयं षोडशविधमिति । तत्र दर्शनमोहनीयं त्रिभेदं सम्यक्त्वमिथ्यात्वतदुभयानीति । तद्वंधं प्रत्येकं भूत्वा सत्कर्म प्रतीत्य त्रेधा । चारित्रमोहनीयं द्वेधा, अकषायकषायभेदात् । कषायप्रतिषेधप्रसंग इति चेत् न, ईषदर्थत्वान्नञः । अकषायवेदनीयं नवविधं हास्यादिभेदात् । कषायवेदनीयं षोडशविधमनंतानुबंध्यादिविकल्पात् ॥ कुतो मोहस्याष्टाविंशतिः प्रकृतयः सिद्धा इत्याह [सू०९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522