Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 491
________________ ४८२ तत्त्वार्थ श्लोकवार्तिके [सू० २२ अधुना वेदनीयस्य मुहूर्ता द्वादश स्थितिः । सामर्थ्यान्मध्यमा मध्येऽनेकधा संप्रतीयते ॥ १ ॥ अथायुषो नंतरयोः कर्मणोः का जघन्या स्थितिरित्याह; ------- नामगोत्रयोरष्टौ ॥ १९॥ मुहूर्ता इत्यनुवर्तते अपरा स्थितिरिति च । सा च सूक्ष्मसांपराये विभाव्यते । तथाहिसानामगोत्रयोरष्टौ मुहूर्ता इति वर्तनात् । यामादयो व्यवच्छिन्नाः कामं मध्येस्तु मध्यमा १ अथोक्तेभ्योऽन्येषां कर्मणां का निकृष्टा स्थितिरित्याह; शेषाणामतर्मुहूर्ता ॥ २० ॥ अपरा स्थितिरित्यनुवर्तते । शेषाणि ज्ञानदर्शनावरणांतरायमोहनीयायूंषि । तत्र ज्ञानदर्शनावरणांतरा - याणां सूक्ष्मसांपराये, मोहनीयस्यानिवृत्तिबादरसां पराये, आयुषः संख्येयवर्षायुषतिर्यग्मनुष्येषु ॥ सर्वकर्मणां स्थितिबंधमुपसंहरन्नाह; - शेषाणां कर्मणामतर्मुहूर्ताचेति कार्यतः । जघन्यमध्यमोत्कृष्टा स्थितिर्या प्रतिपादिता || १ || तया विशेषितैर्वधः कर्मभिः स्वयमाहृतैः । स्थितिबंधोवबोद्धव्यस्तत्प्राधान्य विवक्षया ॥ २ ॥ स्थित्या केवलया बंधस्तद्वच्छ्रन्यैर्न युज्यते । तद्वदाश्रितया त्वस्ति भूमिभूधरयोरिव ॥ ३ ॥ स्थितिशून्यानि कर्माणि निरन्वयविनाशतः । प्रदीपादिवदित्येतत्स्थितेः सिद्धानि धार्यते ॥ ४॥ निर्णीता हि स्थितिः सर्वपदार्थानां क्षणादूर्ध्वमपि प्रत्यभिज्ञानादबाधितखरूपाद्भेदप्रत्ययादुत्पादविनाशवत् । ततः स्थितिमद्भिः कर्मभिरात्मनः स्थितिबंधोऽनेकधा सूत्रितोनवद्यो बोद्धव्यः प्रकृतिबंधवत् ॥ अथानुभवबंधं व्याचष्टे: विपाकोऽनुभवः ॥ २१ ॥ विशिष्टः पाको नानाविधो वा विपाकः, पूर्वास्रवतीत्रादिभावनिमित्तविशेषाश्रयत्वात् द्रव्यादिनिमित्तभेदेन विश्वरूपत्वाच्च सोनुभवः कथ्यते । शुभपरिणामानां प्रकर्षाच्छुभप्रकृतीनां प्रकृष्टोनुभवः, अशुभपरिणामानां प्रकर्षात्तद्विपर्ययः । स किंमुखेनात्मनः स्यादित्याह ; विपाकोनुभवो ज्ञेयः पुद्गलादिमुखेन तु । कर्मणां फलनिष्पत्तौ सामर्थ्यायोगतोन्यथा ॥ १ ॥ पुद्गलविपाकिनां कर्मणामंगोपांगादीनां पुद्गलद्वारेणानुभवोऽन्यथात्मनि फलदाने सामर्थ्याभावात्, क्षेत्रविपाकिनां तु नरकादिगतिप्रायोग्यानुपूर्व्यादीनां क्षेत्रद्वारेण, जीवविपाकिनां पुनर्ज्ञानावरणसद्वेद्यादीनामात्मभावप्रतिषेधाविधानविधानानां जीवमुख्येनैव भवविपाकिनां तु नारकाद्यायुषां भवद्वारेण तत एव । तेन मूलप्रकृतीनां खमुखेनैवानुभवो, अतुल्यजातीयानामुत्तरप्रकृतीनां च निवेदितः । तुल्यजातीयानां तूत्तरप्रकृतीनां परमुखेनापीति प्रतिपत्तव्यमन्यत्रायुर्दर्शनचारित्रमोहेभ्यः, तेषां परमुखेन वफलदाने सामर्थ्याभावात् ॥ कुतः पुनर्ज्ञानावरणादिकर्मप्रकृतीनां प्रतिनियतफलदानसामर्थ्यं निश्चीयत इत्याह ; स यथानाम ॥ २२ ॥ यस्मादिति शेषस्तेन ज्ञानावरणादीनां सविकल्पानां प्रत्येकमन्वर्थसंज्ञानिर्देशात्तदनुभवसंप्रत्ययः । ज्ञानावरणादिकमेव हि तेषां प्रयोजनं नान्यदिति कथमन्वर्थसंज्ञा न स्यात् ? ततः--- Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522