Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 485
________________ ४७६ तत्त्वार्थश्लोकवार्तिके [सू० ४ अन्यथा सकषायत्वप्रत्ययस्य विरोधतः । संसारिणां शरीरादिसंबंधस्यैव हानितः ॥ १२ ॥ सोयं सामान्यतो बंधः प्रतिपादितस्तत्प्रकारप्रतिपादनार्थमाह; प्रकृतिस्थित्यनुभाग(भव)प्रदेशास्तदिधयः ॥३॥ अकर्तरीत्यनुवृत्तेरपादानसाधना प्रकृतिः, भावसाधनौ स्थित्यनुभवौ, कर्मसाधनः प्रदेशशब्दः । । प्रकृतिः स्वभाव इत्यनर्थान्तरं, स्वभावाप्रच्युतिः स्थितिः, तद्रसविशेषोनुभवः, इयत्तावधारणं प्रदेशः । विधिशब्दः प्रकारवचनः । तस्य विधयस्तद्विधयो बंधप्रकाराः प्रकृत्यादय इत्यर्थः ॥ तदेवाह; तस्य बंधस्य विधयः प्रकृत्याद्याः सुसूत्रिताः । तथाविधत्वसंसिद्धेर्बधव्यानां कथंचन ॥१॥ स्थित्यादिपर्ययोन्मुक्तैः कर्मयोग्यैर्हि पुद्गलैः । प्रकृत्यावस्थितैर्बधः प्रथमोत्र विवक्षितः ॥ २ ॥ प्रतिप्रदेशमेतैर्नु मतो बंधः प्रदेशतः । स्थित्यादिपर्ययाक्रांतैः स स्थित्यादिविशेपितः ॥३॥ बंधस्य भेदादेवं हि बंधो भिद्यते नान्यथा बंधव्यानि च कर्माणि प्रकृत्यावस्थितानि प्रकृतिबंधव्यपदेशं लभंते । तान्येवात्मप्रदेशवृत्तीनि प्रदेशबंधव्यपदेशं । समयादूर्ध्वस्थितिपर्ययाक्रांतानि स्थितिबंधव्यपदेशं फलदानप्रशक्तिलक्षणानुभवपर्ययाक्रांतान्यनुभवबंधव्यपदेशमिति शोभनं सूत्रिताः प्रकृत्यादिविधयो बंधस्य । तत्र योगनिमित्तौ प्रकृतिप्रदेशौ, स्थित्यनुभवौ कषायहेतुकौ । आयो द्वेधा मूलोत्तरप्रकृतिभेदात् ॥ तत्र मूलप्रकृतिबंधं तावदाह; आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रांतरायाः ॥ ४॥ सामानाधिकरण्ये सति पूर्वोत्तरवचनविरोध इति चेन्न, उभयनयधर्मविवक्षासद्भावात् तयोरेकवचनबहुवचनप्रयोगोपपत्तेः । प्रमाणं श्रोतार इति सामान्यविशेषयोरेकत्वबहुत्वव्यवस्थितेर्यथासंभवं कादिसाधनत्वं ज्ञानावरणादिशब्दानां प्रयोगपरिणामादागच्छदेवाविशिष्टं कर्म ज्ञानावरणादिविशेषैर्विभिद्यते अन्नादेर्वातादिविकारवत् । ज्ञानावरणमेव मोह इति चेन्न, अर्थातरभावात् कार्यभेदे च कारणान्यत्वात् । ज्ञानावरणस्य हि कार्य ज्ञानं, मोहस्य तत्त्वार्थश्रद्धानमचारित्रं चेति । एतेन ज्ञानदर्शनावरणयोरन्यत्वमुक्तं तत्कार्ययोरज्ञानादर्शनयोरन्यत्वात् तदात्रियमाणयोश्च ज्ञानदर्शनयोरन्यत्वं प्रयुक्तं भेदसाधनं । ज्ञानावरणस्याविशेषेपि प्रत्यास्रवं मत्यादिविशेषो जलवत् । एतेनेतराणि व्याख्यातानि दर्शनावरणादीन्यपि प्रत्यासवं मूलोत्तरप्रकृतिविकल्पभांजि विभाव्यते । सकलकर्मप्रकृतीनां कार्यविशेषानुमेयत्वादिंद्रियशक्तिविशेषवत् । तदेवाहकर्मप्रकृतयस्तत्र स्युर्ज्ञानावरणादयः । तादृक्कार्यविशेषानुमेयाः करणशक्तिवत् ॥१॥ कश्चिदाह-पुद्गलद्रव्यस्यैकस्यावरणसुखदुःखादिनिमित्तत्वानुपपत्तिर्विरोधात् इति । स विनिवार्यते न वा, तत्स्वाभाव्याद्वन्हेर्दाहपाकप्रतापप्रकाशसामर्थ्यवत् । अनैकांतिकत्वाच्च द्रव्यस्य नैकत्यादिरूपेणानैकांतिकत्वं यतो विरोधः । पराभिप्रायेणेंद्रियाणां भिन्नजातीयानां क्षीराद्युपभोगे वृद्धिवत् । वृद्धिरेकैवेति चेन्न, प्रतींद्रियं वृद्धिभेदात् । तथैवातुल्यजातीयेनानुग्रहसिद्धिः । तेन चेतनस्यात्मनोऽचेतनं कर्मानुग्राहकं सिद्धं भवति । किमेतावानेव प्रकृतिबंधविकल्पो नेत्याख्यायते-एकादिसंख्येयविकल्पश्च शब्दतः तत्रैकस्तावत्सामान्यात् कर्मबंधो विशेषाणाम विवक्षितत्वात् सेनावचनवत् । स एव पुण्यपापभेदाद्विविधः खामिभृत्यभेदात् सेनावत् । त्रिविधश्चानादिः सांतः, अनादिरनंतः, सादिः सांतश्चेति, भुजाकाराल्पतरावस्थितभेदाद्वा । प्रकृत्यादिभेदाच्चतुर्विधः, द्रव्यादिभेदात् पंचविधः । षड्जीवनकायभेदात् षोढा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522