Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 463
________________ तत्त्वार्थश्लोकवार्तिके [सू० १९ कषायोदयात्तीत्रपरिणामो विवादापन्नश्चारित्रमोहहेतुपुद्गलसमागमकारणं जीवस्य कषायोदयहेतुकती परिणामत्वात् कस्यचिद्यतेः कामोद्रेकवत् । न साध्यसाधनविकलो दृष्टांतः, कामोद्रेके चारित्रमोहहेतुर्योषिदादिपुद्गलसमागमकारणत्वेन व्याप्तस्य कषायोदय हेतु कतीत्रपरिणामत्वस्य सुप्रसिद्धत्वात् ॥ बहारंभपरिग्रहत्वं नारकस्यायुषः ॥ १५ ॥ संख्या वैपुल्यवाचिनो बहुशब्दस्य ग्रहणमविशेषात् । आरंभो हेतुकर्म, ममेदमिति संकल्पः परिग्रहः, बारंभः परिग्रहो यस्य स तथा तस्य भावस्तत्त्वं, तन्नारकस्यायुषः आस्रवः प्रत्येयः । एतदेव सोपपत्तिकमाह - ४५४ नरकस्यायुषोभीष्टं बहारंभत्वमास्रवः । भूयः परिग्रहत्वं च रौद्रध्यानातिशायि यत् ॥ १ ॥ निंद्यं धाम नृणां तावत्पापाधान निबंधनम् । सिद्धं चांडालकादीनां धेनुघातविधायिनाम् ||२|| तत्प्रकर्षात्पुनः सिद्धयेद्धीनधामप्रकृष्टता । तस्य प्रकर्षपर्यंता तत्प्रकर्षव्यवस्थितिः ॥ ३ ॥ पापानुष्ठा कचिद्वातिपर्यंततारतम्यतः । परिणामादिवत्तत्तो रौद्रध्यानमपश्चिमं ॥ ४ ॥ तस्यापकर्षतो हीनगतेरप्यपकृष्टता । सिद्धेति बहुधा भिन्नं नारकायुरुपेयते ॥ ५ ॥ माया तैर्यग्योनस्य ॥ १६ ॥ चारित्रमोहोदयात् कुटिलभावो माया । सा कीदृशी : तैर्यग्योनस्यायुष आस्रव इत्याह--- माया तैर्यग्योनस्येत्यायुषः कारणं मता । आर्तध्यानाद्विना नात्र स्वाभ्युपायविरोधतः ॥ १ ॥ अपकृष्टं हि यत्पापध्यानमार्तं तदीरितं । निंद्यं धाम तथैवाप्रकृष्टं तैर्यग्गतिस्ततः ॥ २ ॥ प्रसिद्धमायुषो नैकप्रधानत्वं प्रमाणतः । तैर्यग्योनस्य सिद्धांते दृष्टेष्टाभ्यामबाधितं ॥ ३ ॥ अल्पारंभपरिग्रहत्वं मानुषस्य ॥ १७ ॥ नारकायुरास्रवविपरीतो मानुषस्तस्येत्यर्थः ॥ किं तदित्याह— मानुषस्यायुषो ज्ञेयमल्पारंभत्वमास्रवः । मिश्रध्यानान्वितमल्पपरिग्रहतया सह ॥ १ ॥ धर्ममात्रेण संमिश्रं मानुषीं कुरुते गतिं । सातासातात्मतन्मिश्रफलसंवर्तिका हि सा ॥ २ ॥ धर्माधिक्यात्सुखाधिक्यं पापाधिक्यात्पुनर्नृणां । दुःखाधिक्य मिति प्रोक्ता बहुधा मानुषी गतिः स्वभावमार्दवं च ॥ १८ ॥ उपदेशानपेक्षं मार्दवं स्वभावमार्दवं । एकयोगीकरणमिति चेत्, ततोनंतरापेक्षत्वात् पृथक्करणस्य । तेन दैवस्यायुषोयमास्रवः प्रतिपादयिष्यते । कीदृशं तन्मानुषस्यायुष आस्रव इत्याह स्वभावमार्दवं चेति हेत्वंतरसमुच्चयः । मानुषस्यायुषस्तद्धि मिश्रध्यानोपपादिकं ॥ १ ॥ निःशील तत्वं च सर्वेषाम् ॥ १९ ॥ चशब्दोधिकृतसमुच्चयार्थः । सर्वेषां ग्रहणं सकलास्रवप्रतिपत्त्यर्थं । देवायुषोपि प्रसंग इति चेन्न, अतिक्रांतापेक्षत्वात् । पृथक्करणात् सिद्धेरानर्थक्यमिति चेन्न, भोगभूमिजार्थत्वात् । तेन भोगभूमिजानां निःशीलव्रतत्वं दैवस्यायुष आस्रवः सिद्धो भवति । कुत एतदित्याह - निःशीलव्रतत्वं च सर्वेषामायुषामिह । तत्र सर्वस्य संभूतेयनस्यासुभृतां श्रितौ ॥ १ ॥ ततो यथासंभवं सर्वस्यायुषो भवत्याखवः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522