Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 481
________________ ४७२ तत्त्वार्थश्लोकवार्तिके [सू० ३९ चेन्न, तत्र संसर्गमात्रत्वात् । प्रमादसंमोहाभ्यां सचित्तादिषु वृत्तिर्देशविरतस्योपभोगपरिभोगविषयेषु परिमितेष्वपीत्यर्थः । द्रवो वृष्यं चाभिषवः, असम्यक् पक्को दुःपक्कः । त एतेतिक्रमाः पंच कथमित्याह तथा तचित्तसंबंधाहाराद्याः पंच सूत्रिताः । तेत्र षष्ठस्य शीलस्य तद्विरोधनहेतवः ॥१॥ सप्तमस्य शीलस्य केतिक्रमा इत्याह; सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥ ३६॥ सचित्ते निक्षेपः, प्रकरणात् सचित्तेनापिधानं, अन्यदातृदेयार्पणं परव्यपदेशः, प्रयच्छतोप्यादराभावो मात्सर्य, अकाले भोजनं कालातिक्रमः ॥ कुत एतेतिचारा इत्याह;स्मृताः सचित्तनिक्षेपप्रमुखास्ते व्यतिक्रमाः । सप्तमस्येह शीलस्य तद्विघातविधायिनः ॥१॥ अथ सल्लेखनायाः केतिचारा इत्याह; जीवितमरणाशंसामित्रानुरागसुखानुबंधनिदानानि ॥ ३७ ॥ आकांक्षणमाशंसा, अवश्यहेयत्वे शरीरस्यावस्थानादरो जीविताशंसा, जीवितसंक्लेशान्मरणं प्रति चित्तानुरोधो मरणाशंसा, पूर्व सुहृत्सहपांशुक्रीडनाद्यनुस्मरणं मित्रानुरागः, पूर्वानुभूतप्रीतिविशेषस्मृतिसमन्वाहारः सुखानुबंधः, भोगाकांक्षया नियतं दीयते चित्तं तस्मिंस्तेनेति वा निदानं । त एते संन्यासस्यातिक्रमाः कथमित्याहविज्ञेया जीविताशंसाप्रमुखाः पंच तत्त्वतः । प्रोक्तसल्लेखनायास्ते विशुद्धिक्षतिहेतवः ॥१॥ तदेवं शीलवतेष्वनतिचारैस्तीर्थकरत्वस्य परमशुभनाम्नः कर्मणो हेतुरित्येतस्य पुण्यास्रवस्य प्रपंचतो निश्चयार्थ व्रतशीलसम्यक्त्वभावनातदतिचारप्रपंचं व्याख्याय संप्रति शक्तितस्त्यागतपसी इत्यत्र प्रोक्तस्य व्याख्यानार्थमुपक्रम्यते; अनुग्रहार्थं स्वस्यातिसर्गों दानम् ॥ ३८ ॥ खपरोपकारोनुग्रहः, स्वशब्दो धनपर्यायवचनः । किमर्थोयं निर्देश इत्याहखं धनं स्यात्परित्यागोतिसर्गस्तस्य नु स्फुटः । तदानमिति निर्देशोतिप्रसंगनिवृत्तये ॥१॥ अनुग्रहार्थमित्येतद्विशेषणमुदीरितं । तेन स्वमांसदानादि निषिद्धं परमापकृत् ॥ २ ॥ न हि परकीय वित्तस्यातिसर्जनं दानं स्वस्यातिसर्ग इति वचनात् । खकीयं हि धनं खमिति प्रसिद्ध धनपर्यायवाचिनः खशब्दस्य तथैव प्रसिद्धेः । न चैवं स्वदुःखकारणं परदुःखनिमित्तं वा सर्वमाहारादिकं धनं भवतीति तस्याप्यतिसर्गो दानमिति प्रसज्यते सामान्यतोनुग्रहार्थमिति वचनात् । खानुग्रहार्थस्य वापरानुग्रहार्थस्य च धनस्यातिसर्गो दानमिति व्यवस्थितेः । तेन च विशेषणेन स्वमांसादिदानं स्वापायकारणं परस्यावधनिबंधनं च प्रतिक्षिप्तमालक्ष्यते, तस्य खपरयोः परमापकारहेतुत्वात् ॥ कुतस्तस्य दानस्य विशेष इत्याह; विधिद्रव्यदातृपात्रविशेषात्तविशेषः ॥ ३९ ॥ प्रतिग्रहादिक्रमो विधिः, विशेषो गुणकृतः तस्य प्रत्येकममिसंबंधः । तपःखाध्यायपरिवृद्धिहेतुत्वादिद्रव्यविशेषः, अनसूयाऽविषादादिर्दातृविशेषः, मोक्षकारणगुणसंयोगः पात्रविशेषः । एतदेवाहतद्विशेषः प्रपंचेन स्थाद्विध्यादिविशेषतः । दातुः शुद्धिविशेषाय सम्यग्बोधस्य विश्रुतः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522