Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 480
________________ सप्तमोऽध्यायः। ४७१ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥ ३१ ॥ तमानयेत्याज्ञापनमानयनं, एवं कुर्विति विनियोगः प्रष्यप्रयोगः, अभ्युत्कासिकादिकरणं शब्दानुपातः, खविग्रहप्ररूपणं रूपानुपातः, लोष्ठादिपातः पुद्गलक्षेपः । कुतः पंचैते द्वितीयस्य शीलस्य व्यतिक्रमा इत्याहद्वितीयस्य तु शीलस्य ते पंचानयनादयः । स्वदेशविरतेर्वाधा तैः संक्लेशविधानतः ॥२॥ अथ तृतीयस्य शीलस्य केतीचारा इत्याह;कंदर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थ क्यानि ॥ ३२॥ रागोद्रेकात् प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कंदर्पः, तदेवोभयं परत्र दुष्टकायकर्मयुक्तं कौत्कुच्यं, धार्यप्रायोसंबद्धबहुपलापित्वं मौखर्य, असमीक्ष्य प्रयोजनाधिक्येन करणं असमीक्ष्याधिकरणं, तत्रेधा कायवाङ्मनोविषयभेदात् । यावतार्थेनोपभोगपरिभोगस्यार्थस्ततोन्यस्याधिक्यमानर्थक्यं । उपभोगपरिभोगव्रतेंतर्भावात्पौनरुक्त्यप्रसंग इति चेन्न, तदर्थानवधारणात् ॥ कस्मादिमे तृतीयशीलस्यातीचारा इत्याह;कंदर्पाद्यास्तृतीयस्य शीलस्येहोपसूत्रिताः । तेषामनर्थदंडेभ्यो विरतेर्बाधकत्वतः ॥१॥ अथ चतुर्थस्य शीलस्य केतिक्रमा इत्याह; योगदुःप्रणिधानानादरस्मृत्यनुपस्थानानि ॥ ३३ ॥ योगशब्दो व्याख्यातार्थः, दुष्टप्रणिधानमन्यथा वा दुःप्रणिधानं, अनादरोनुत्साहः, अनैकाग्र्यं स्मृत्यनुपस्थानं । मनोदुःप्रणिधानं तदिति चेन्न, तद्रतादन्याचिंतनात् । कुतश्चतुर्थस्य शीलस्यातिकमा इत्याह योगदुःप्रणिधानाद्याचतुर्थस्य व्यतिक्रमाः। शीलस तद्विघातित्वात्तेषां तन्मलतास्थितेः ॥१॥ पंचमस्य शीलस्य केतीचारा इत्याह;अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्य नुपस्थानानि ॥ ३४॥ प्रत्यवेक्षणं चक्षुषो व्यापारः, प्रमार्जनमुपकरणोपकारः, तस्य प्रतिषेधविशिष्टस्योत्सर्गादिभिः संबंधस्तेनाप्रत्यवेक्षिताप्रमार्जितदेशे क्वचिदुत्सर्गस्तादृशस्य कस्यचिदुपकरणस्यादानं तादृशे च क्वचिच्छयनीयस्थाने संस्तरोपक्रमणमिति त्रीण्यभिहितानि भवंति, तथावश्यकेष्वनादरः, स्मृत्यनुपस्थानं च क्षुदर्दितत्वात् प्रोषधोपवासानुष्ठायिनः स्यादिति । तस्यैते पंचातीचाराः कुत इत्याह अप्रत्यवेक्षितेत्याद्यास्तत्रोक्ताः पंचमस्य ते । शीलस्यातिक्रमाः पंच तद्विघातस हेतवः॥१॥ यत इति शेषः ॥ षष्ठस्य शीलस्य केतीचारा इत्याह; सचित्तसंबंधसंमिश्राभिषवदुःपकाहाराः ॥ ३५॥ सह चित्तेन वर्तत इति सचित्तं, तदुपश्लिष्टः संबंधः, तद्व्यतिकीर्णस्तन्मिश्रः । पूर्वेणाविशिष्ट इति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522