Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 478
________________ सप्तमोऽध्यायः । ४६९ यथा तद्विशुद्धिहेतवस्तत्त्वार्थश्रवणाद्यर्थास्तद्विनाशहेतवो वा दर्शनमोहोदयादयस्तन्मालिन्यहेतवश्चैव ते तस्मात्तदतीचारा इति युक्तिवचनं प्रत्येयं ॥ व्रतशीलेषु कियंतोतीचारा इत्याह; व्रतशीलेषु पंच पंच यथाक्रमम् ॥ २४ ॥ अतीचारा इत्यनुवृत्तिः । व्रतग्रहणमेवास्त्विति चेन्न, शीलविशेषद्योतनार्थत्वात् शीलग्रहणस्य । दिग्विरत्यादीनां हि व्रतलक्षणस्याभिसंधिकृतनियमरूपस्य सद्भावातत्वेपि तथाभिधानेपि च शीलत्वं प्रकाश्यते, व्रतपरिरक्षणं शीलमिति शीललक्षणोपपत्तेः । सामर्थ्यागृहिसंप्रत्ययः, बंधनादयो यतीचारा वक्ष्यमाणा नानगारस्य संभवंतीति सामर्थ्यावृहिण एव व्रतेषु शीलेषु पंच पंचातीचाराः प्रतीयंते । पंच पंचेति वीप्सायां द्वित्वं व्रतशीलातीचाराणामनयवेन पंचसंख्यया व्याप्यत्वात् । पंचश इति लघुनिर्देशे संभवत्यपि पंच पंचेति वचनमभिवाक्याथै, यथाक्रमवचनं वक्ष्यमाणातीचारक्रमसंबंधनार्थ ॥ अत एवाह:पंच पंच व्रतेष्वेवं शीलेषु च यथाक्रमं । वक्ष्यंतेतः परं शेषे इति सूत्रेतिदिश्यताम् ॥ १॥ तत्राद्यस्याणुव्रतस्य केतीचारा इत्याह; बंधवधच्छेदातिभारारोपणानपाननिरोधाः ॥२५॥ अभिमतदेशे गतिनिरोधहेतुबैधः, प्राणिपीडाहेतुर्बधः कशाद्यभिघातमात्रं न तु प्राणव्यपरोपणं तस्य व्रतनाशरूपत्वात् , छेदोंगापनयनं, न्याय्यभारातिरिक्तभारवाहनमतिभारारोपणं, क्षुत्पिपासाबाधनमन्नपाननिरोधः । कुतोमी पंचाहिंसाणुव्रतस्यातीचारा इत्याह तत्राहिंसाव्रतस्यातीचारा बंधादयः श्रुताः । तेषां क्रोधादिजन्मत्वात्क्रोधादेस्तन्मलत्वतः ॥१॥ पूर्ववदनुमानप्रयोगः प्रत्येतव्यः ॥ अथ द्वितीयस्याणुव्रतस्य केतीचाराः पंचेत्याह;मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकार मंत्रभेदाः ॥ २६ ॥ मिथ्यान्यथाप्रवर्तनमतिसंधापनं वा मिथ्योपदेशः सर्वथैकांतप्रवर्तनवत् सच्छास्त्रान्यथाकथनवत् परातिसंधायकशास्त्रोपदेशवच्च, संवृतस्य प्रकाशनं रहोभ्याख्यानं स्त्रीपुरुषानुष्ठितगुप्तक्रियाविशेषप्रकाशनवत् , परप्रयोगादन्यानुक्तपद्धतिकर्म कूटलेखक्रिया एवं तेनोक्तमनुष्ठितं चेति वचनाभिप्रायलेखनवत् , हिरण्यादिनिक्षेपे अल्पसंख्यानुज्ञावचनं न्यासापहारः शतन्यासे नवत्यनुष्ठानवत् , अर्थादिभिः परगुह्यप्रकाशनं साकारमंत्रभेदः अर्थप्रकरणादिभिरन्याकूतमुपलभ्यासूयादिना तत्प्रकाशनवत् ।। कथमेते अतीचारा इत्याह तथा मिथ्योपदेशाद्या द्वितीयस्य व्रतस्य ते । तेषामनृतमूलत्वात्तद्वत्तेन विरोधतः ॥१॥ यथाद्यव्रतस्य मालिन्यहेतुत्वाद्वंधादयोतीचारास्तथा द्वितीयस्य मिथ्योपदेशादयस्तदविशेषात् । तन्मालिन्यहेतुत्वं पुनस्तेषां तच्छुद्धिविरोधित्वात् ॥ अथ तृतीयस्य व्रतस्य केतीचारा इत्याह; Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522