Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 476
________________ सप्तमोऽध्यायः। ४६७ पभोगपरिभोगपरिमाणयोरनर्थकं चंक्रमणादिकं विषयोपसेवनं च न कर्तव्यमिति प्रकाशितं भवति ततो विशुद्धिविशेषोत्पत्तेः । सामायिकं कथं त्रिधा विशुद्धिदमिति चेत् , प्रतिपाद्यते । सामायिके नियतदेशकाले महाव्रतत्वं पूर्ववत् ततो विशुद्धिरणुस्थूलकृतहिंसादिनिवृत्तेः । संयमप्रसंगः संयतासंयतस्यापीति चेन्न, तस्य तद्धातिकर्मोदयात् । महाव्रतत्वाभाव इति चेन्न, उपचाराद्राजकुले सर्वगतचैत्रवत् । कः पुनः प्रोषधोपवासो यथाविधीत्युच्यते-स्नानगंधमाल्यादिविरहितो अवकाशे शुचावुपवसेत् इत्युपवासविधिर्विशुद्धिकृत् , खशरीरसंस्कारकरणत्यागाद्धर्मश्रवणादिसमाहितांतःकरणत्वात् तस्मिन् वसति निरारंभत्वाच्च । भोगपरिभोगसंख्यानं पंचविधं, सघातप्रमादबहुवधानिष्टानुपसेव्यविषयभेदात् । तत्र मधुमांसं त्रसघातजं तद्विषयं सर्वदा विरमणं विशुद्धिदं, मद्यं प्रमादनिमित्तं तद्विषयं च विरमणं संविधेयमन्यथा तदुपसेवनकृतः प्रमादात्सकलव्रतविलोपप्रसंगः । केतक्यर्जुनपुष्पादिमाल्यं जंतुप्रायं शृंगवेरमूलकाहरिद्रानिंबकुसुमादिकमुपदंशकमनंतकायव्यपदेशं च बहुवधं तद्विषयं विरमणं नित्यं श्रेयः, श्रावकत्वविशुद्धिहेतुत्वात् । यानवाहनादि यद्यस्यानिष्टं तद्विषयं परिभोगविरमणं यावज्जीवं विधेयं । चित्रवस्वाद्यनुपसेव्यमसत्यशिष्टसेव्यत्वात् , तदिष्टमपि परित्याज्यं शश्वदेव । ततोन्यत्र यथाशक्ति स्वविभवानुरूपं नियतदेशकालतया भोक्तव्यं । अतिथिसंविभागश्चतुर्विधो भिक्षोपकरणौषधप्रतिश्रयभेदात् । तत्र भिक्षा निरवद्याहारः, रत्नत्रयोपबृंहणमुपकरणं पुस्तकादि, तथौषधं रोगनिवृत्त्यर्थमनवद्यद्रव्यं, प्रतिश्रयो वसतिः स्त्रीपश्वादिकृतसंबंधरहिता योग्या विज्ञेया । एवंविधोदितव्रतसंपन्नोणुव्रतो गृहस्थः शुद्धात्मा प्रतिपत्तव्यः । चशब्दः सूत्रेनुक्तसमुच्चयार्थः प्रागुक्तसमुच्चयार्थात् । तेन गृहस्थस्य पंचाणुव्रतानि सप्तशीलानि गुणव्रतशिक्षाबतव्यपदेशभांजीति द्वादश दीक्षाभेदाः सम्यक्त्वपूर्वकाः सल्लेखनांताश्च महाव्रततच्छीलवत् ॥ कदा सल्लेखना कर्तव्येत्याह; मारणांतिकी सल्लेखनां जोषिता ॥ २२ ॥ व्रतीत्यभिसंबंधः सामान्यात् । वायुरिंद्रियबलसंक्षयो मरणं, अंतग्रहणं तद्भवमरणप्रतिपत्त्यथै ततः प्रतिसमयं वायुरादिसंक्षयोपलक्षणनित्यमरणव्युदासः । भवांतरप्राप्त्यजहद्वृत्तखभावनिवृत्तिरूपस्यैव तद्भवमरणस्य प्रतिपत्तेः । मरणमेवांतो मरणांतः मरणांतः प्रयोजनमस्या इति मारणांतिकी । सम्यक्कायकषायलेखना बाह्यस्य कायस्याभ्यंतराणां च कषायाणां यथाविधिमरणविभक्त्याराधनोदितक्रमेण तनूकरणमिति यावत् । तां मारणांतिकी सल्लेखनां जोषिता प्रीत्या सेवितेत्यर्थः ॥ किं कर्तुमित्याह सम्यकायकषायाणां त्वक्षा सल्लेखनात्र तां । जोषिता सेविता प्रीत्या स व्रती मारणांतिकीं ॥१ मृत्युकारणसंपातकालमास्थित्य सद्वतं । रक्षितुं शक्यभावेन नान्यथेत्यप्रमत्तगं ॥२॥ सेवितेति ग्रहणं विस्पष्टार्थमिति चेन्न, अर्थविशेषोपपत्तेः । प्रीतिसेवनार्थों हि विशिष्टो जोषितेति वचनात्प्रतिपद्यते । विशेषोपयोगादिभिरात्मानं नत एव तद्भावात् तत्र खयमारोपितगुणक्षतेरभावात्प्रीत्युत्पत्तावपि मरणस्यानिष्टत्वात् , खरत्नाविधाते भांडागारविनाशेपि तदधिपतेः प्रीतिविनाशानिष्टवत् । उभयानभिसंबंधाच्चाप्रमत्तस्य नास्मबधः । न ह्यसौ तदा जीवनं मरणं वाभिसंबंधे "नाभिनंदामि मरणं नाभिकांक्षामि जीवितं । कालमेव प्रतीक्षेहं निदेशं भृतको यथा ॥” इति संन्यासिनो भावनाविशुद्धिः । ततो न सल्लेखनायामात्मवध इति वचनं युक्तं, तदा वदतः खसमयविरोधात् । सोयं नासंचेतितं कर्म बध्यत इति स्वयं प्रतिज्ञाय बधकचित्तमंतरेणापि संन्यासे खबधदोषमुद्भावयन् खसमयं बाधते स्ववचनविरोधाच्च सदा मौनव्रतिकोहमित्यभिधानवत् । मरणसंचेतनाभावे कथं सल्लेखनायां प्रपन्न इति चेन्न, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522