Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 475
________________ ४६६ तत्त्वार्थश्लोकवार्तिके [सू० २१ अणुव्रतोऽगारी ॥ २०॥ अनुशब्दः सूक्ष्मवचनः सर्वसावधनिवृत्त्यसंभवात् । स हि द्वींद्रियादिव्यपरोपणे निवृत्तः, स्नेहद्वेषमोहावेशादसत्याभिधानवर्जनप्रवणः, अन्यपीडाकरात् पार्थिवभयाद्युत्पादितनिमित्तादप्यदत्तात् प्रतिनिवृत्तः, उपात्तानुपात्तान्यांगनासंगाद्विरतिः, परिच्छिन्नधनधान्यक्षेत्राद्यवधिही प्रत्येतव्यः ॥ सामर्थ्यात् महाव्रतोऽनगार इत्याह तत्र चाणुव्रतोगारी सामर्थ्यात्स्यान्महाव्रतः । अनगार इति ज्ञेयमत्र सूत्रांतराद्विना ॥१॥ दिग्विरत्यादिसंपन्नः स्यादगारीत्याह;दिग्देशानर्थदंडविरतिसामायिकपोषधोपवासोपभोगपरिभोगपरिमा णातिथिसंविभागवतसंपन्नश्च ॥ २१ ॥ आकाशप्रदेशश्रेणी दिक्, न पुनद्रव्यांतरं तस्य निरस्तत्वात् । आदित्यादिगतिविभक्तस्तद्भेदः पूर्वादिर्दशधा । ग्रामादीनामवधृतपरिमाणप्रदेशो देशः । उपकारात्यये पापादाननिमित्तमनर्थदंडः । विरतिशब्दः प्रत्येकमभिसंबध्यते । विरत्यग्रहणमधिकारादिति चेन्न, उपसर्जनानभिसंबंधत्वात् । एकत्वेन गमनं समयः, एकोहमात्मेति प्रतिपत्तिर्द्रव्यार्थादेशात् कायवाङ्मनःकर्म पर्यायानर्पणात् , सर्वसावद्ययोगनिवृत्त्येकनिश्चयनं वा व्रतभेदार्पणात् , समय एव सामयिकं समयः प्रयोजनमस्येति वा । उपत्य खस्मिन् वसंतींद्रियाणीत्युपवासः, खविषयं प्रत्यव्यावृत्तत्वात् प्रोषधे पर्वण्युपवासः प्रोषधोपवासः । उपेत्य भुज्यत इत्युपभोगः अशनादिः, परित्यज्य भुज्यत इति परिभोगः पुनः पुनर्भुज्यत इत्यर्थः स वस्त्रादिः । परिमाणशब्दः प्रत्येकमुभाभ्यां संबंधनीयः । संयममविराधयन्नततीत्यतिथिः, न विद्यतेस्य तिथिरिति वा तस्मै संविभागः प्रतिश्रयादीनां यथायोगमतिथिसंविभागः । व्रतशब्दः प्रत्येकमभिसंबध्यते संपन्नशब्दश्च तेन दिग्विरतिव्रतसंपन्न इत्यादि योज्यं । व्रतग्रहणमनर्थकमिति चेत्, उक्तमत्र चोपसर्जनानभिसंबंधादिति । तत इदमुच्यतेदिग्देशानर्थदंडेभ्यो विरतिर्या विशुद्धिकृत । सामायिकं त्रिधा शुद्धं त्रिकालं यदुदाहृतं ॥१॥ यः प्रोषधोपवासश्च यथाविधि निवेदितः । परिमाणं च यत्स्वस्योपभोगपरिभोगयोः ॥२॥ आहारभेषजावासपुस्तवस्त्रादिगोचरः । संविभागो व्रतं यत्स्यायोग्यायातिथये स्वयं ॥३॥ तत्संपन्नश्च निश्चयोऽगारीति द्वादशोदिताः । दीक्षाभेदा गृहस्थस्य ते सम्यक्त्वपुरःसराः॥४॥ कुतः कारणादिग्विरतिः परिमिताच्च समाश्रीयते यतो विशुद्धिकारिणी स्यादिति चेत् , दुष्परिहारक्षुद्रजंतुप्रायत्वाद्विनिवृत्तिस्तत्परिमाणं च योजनादिभितिवद्भिः ततो अगमनेपि प्राणिवधाद्यनुज्ञातमिति चेन्न, निवृत्त्यर्थत्वात्तद्वचनस्य । कथंचित्प्राणिवधस्य परिहारेण गमनसंभवात् , तृष्णाप्राकाम्यनिरोधनतंत्रत्वाच्च तद्विरतेः । महालाभेपि परिमितदिशो बहिरगमनात् । ततो बहिर्महाव्रतसिद्धिरिति वचनात् । तथैव देशविरतेर्विशुद्धिकृत् अनर्थदंडः पंचधा, अपध्यानपापोद्देशप्रमादचरितहिंसाप्रदानाशुभश्रुतिभेदात् । ततोपि विरतिर्विशुद्धिकारिणी । नरपतिजयपराजयादिसंचिंतनलक्षणादपध्यानात् क्लेशतिर्यग्वणिज्यादिवचनलक्षणात्पापोपदेशात् निःप्रयोजनवृक्षादिछेदनभूमिकुट्टनादिलक्षणात्प्रमादाचरितात् विषशस्त्रादिप्रदानलक्षणाच्च हिंसाप्रदानात् हिंसादिकथाश्रवणाभीक्ष्णव्यावृत्तिलक्षणाचाशुभश्रुतेर्विरतेर्विशुद्धपरिणामोत्पत्तेः । मध्येनर्थदंडग्रहणं पूर्वोत्तरातिरेकानर्थक्यज्ञापनार्थं तेनानर्थदंडात्पूर्वयोर्दिग्देशविरत्योरुत्तरयोश्चो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522