Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 479
________________ ४७० तत्त्वार्थश्लोकवार्तिके [सू० ३० स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानो न्मानप्रतिरूपकव्यवहाराः ॥ २७ ॥ मोषकस्य त्रिधा प्रयोजनं । स्तेनप्रयोगः, चोरानीतग्रहणं तदाहृतादानं, उचितादन्यथा दानग्रहणमतिक्रमः, विरुद्धराज्ये सत्यतिक्रमः विरुद्धराज्यातिक्रमः, कूटप्रस्थतुलादिभिः क्रयविक्रयप्रयोगो हीनाधिक- . मानोन्मानं, कृत्रिमहिरण्यादिकरणं प्रतिरूपकव्यवहारः । कुतोमी तृतीयस्य व्रतस्यातीचारा इत्याह;प्रोक्ताः स्तेनप्रयोगाद्याः पंचास्तेयव्रतस्य ते । स्तेयहेतुत्वतस्तेषां भावे तन्मलिनत्वतः॥१॥ अथ चतुर्थस्याणुव्रतस्य केतीचारा इत्याह;परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानंगकी डाकामतीव्राभिनिवेशाः ॥ २८ ॥ सद्वेद्यचारित्रमोहोदयाद्विवहनं विवाहः परस्य विवाहस्तस्य करणं परविवाहकरणं, अयनशीलेवरी सैव कुत्सिता इत्वरिका तस्यां परिगृहीतायामपरिगृहीतायां च गमनमित्वरिकापरिगृहीतापरिगृहीतागमनं, अनंगेषु क्रीडा अनंगक्रीडा, कामस्य प्रवृद्धः परिणामः कामतीवाभिनिवेशः। दीक्षितातिबालातिर्यग्योन्यादीनामनुपसंग्रह इति चेन्न, कामतीव्राभिनिवेशग्रह्णात् सिद्धेः । त एते चतुर्थाणुव्रतस्य कुतोतीचारा इत्याह चतुर्थस्य व्रतस्यान्यविवाहकरणादयः । पंचैतेतिक्रमा ब्रह्मविघातकरणक्षमाः ॥१॥ खदारसंतोषव्रतविहननयोग्या हि तदतीचारा न पुनस्तद्विघातिन एव पूर्ववत् ।। अथ पंचमव्रतस्य केतीचारा इत्याह;क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥ २९ ॥ क्षेत्रवास्त्वादीनां द्वयोर्द्वयोद्वः प्राक् कुप्यात् , तीव्रलोभाभिनिवेशात् प्रमाणातिरेकास्तेषामतिक्रमाः । पंच कुतोतीचारा इत्याह; क्षेत्रवास्त्वादिषूपात्तप्रमाणातिक्रमाः स्वयं । पंच संतोषनिर्घातहेतवोत्यव्रतस्य ते ॥१॥ संतोषनिर्घातानुकूलकारणत्वाद्धि तदतीचाराः स्युन पुनः समर्थकारणत्वात् पूर्ववत् ॥ अथ दिग्विरतेः केतिक्रमाः परेत्याह; ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यंतराधानानि ॥ ३०॥ परिमितदिगवधिव्यतिलंघनमतिक्रमः, स त्रेधा ऊर्ध्वाधस्तिर्यग्विषयभेदात् । तत्र पर्वताद्यारोहणादूर्ध्वातिक्रमः, कूपावतरणादेरधोतिवृत्तिः, बिलप्रवेशादेस्तिर्यगतीचारः, अभिगृहीताया दिशो लोभावेशादाधिक्याभिसंबंधः क्षेत्रवृद्धिः । इच्छापरिमाणेतर्भावात्पौनरुत्त्यमिति चेन्न, तस्यान्याधिकरणत्वात् तदतिक्रमः । प्रमादमोहव्यासंगादिभिः अननुस्मरणं स्मृत्यंतराधानं । कस्मात् पुनरमी प्रथमस्य शीलस्य पंचातीचारा इत्याहऊर्ध्वातिक्रमणाद्याः स्युः शीलस्याद्यस्य पंच ते । तद्विरत्युपधातित्वात्तेषां तद्धि मलत्वतः ॥१॥ अथ द्वितीयस्य केतीचारा इत्याह; Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522