Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 477
________________ तत्त्वार्थश्लोकवार्तिके [ सू० २३ जरारोगेंद्रियहानिभिरावश्यकपरिक्षय संप्राप्ते यत्तस्य स्वगुणरक्षणे प्रयत्नात् ततो न सल्लेखनात्मबधः प्रयलस्य विशुद्ध्यंगत्वात्तपश्चरणादिवत् । एकयोगकरणं न्याय्यं इति चेन्न कचित्कदाचित्कस्यचित्तां प्रत्याभिमुख्यप्रतिपादनार्थत्वात् वेश्मापरित्यागिनस्तदुपदेशात् । दिग्विरत्यादिसूत्रेण सहास्य सूत्रस्यैकयोगीकरणेपि यथा दिग्विरत्यादयो वेश्मापरित्यागिनः कार्यास्तथा सल्लेखनापि कार्या स्यात् । न चासौ तथा क्रियते कचिदेव समाध्यनुकूले क्षेत्रे कदाचिदेव संन्यासयोग्ये काले कस्यचिदेवासाध्यव्याध्यादेः संन्यासकारणसंनिपातादप्रमत्तस्य समाध्यर्थिनः सल्लेखनां प्रत्याभिमुख्यज्ञापनाच्च सागारानगारयोरविशेषविधिप्रतिपादनार्थत्वाच्च सल्लेखनायां पूर्वत्वादस्य तंत्रस्य पृथग्वचनं न्याय्यं ॥ एतदेवाह – पृथक्सूत्रस्य सामर्थ्याच्च सागारानगारयोः । सल्लेखनस्य सेवेति प्रतिपत्तव्यमंजसा ॥ ३ ॥ तदेवमयं साकल्येनैकदेशेन च निवृत्तिपरिणामो हिंसादिभ्योनेकप्रकारः क्रमाक्रमखभावविशेषात्मकस्यात्मनोनेकांतवादिनां सिद्धो न पुनर्नित्याद्येकांतवादिन इति ॥ तेषामेव बहुविधत्रतमुपपन्नं नान्यस्येत्युपसंहृत्य दर्शयन्नाह - ४६८ नानानिवृत्तिपरिणामविशेषसिद्धेरेकस्य नुर्बहुविधत्रतमर्थभेदात् । युक्तं क्रमाक्रमविवर्तिभिदात्मकस्य नान्यस्य जातु नयवाधितविग्रहस्य || १ ॥ इति सप्तमाध्यायस्य प्रथममाह्निकम् । अथ सद्दर्शनादीनां सल्लेखनांतानां चतुर्दशानामप्यतीचारप्रकरणे सम्यक्त्वातिचारप्रतिपादनार्थ तावदाह; शंकाकांक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः ॥ २३ ॥ जीवादितत्त्वार्थेषु रत्नत्रयमोक्षमार्गे तत्प्रतिपादके वागमे तत्प्रणेतरि च सर्वज्ञे सदसत्त्वाभ्यामन्यथा वा संशीतिः शंका, सद्दर्शनफलस्य विषयोपभोगस्येहामुत्र चाकांक्षणमाकांक्षा, आप्तागमपदार्थेषु संयमाधारे च जुगुप्सा विचिकित्सा, सुगतादिदर्शनान्यन्यदृष्टयस्तदाश्रिता वा पुमांसस्तेषां प्रशंसासंस्तवौ अन्यदृष्टिप्रशंसासंस्तवौ । त एते सम्यग्दृष्टेर्गुणस्य तद्गते वातीचाराः पंच प्रतिपत्तव्याः । कः पुनः प्रशंसासंस्तवयोः प्रतिविशेषः ? इत्युच्यते - वाङ्मनसविषयभेदात् प्रशंसासंस्तवयोर्भेदः । मनसा मिथ्यादृष्टिज्ञानादिषु गुणोद्भावनाभिप्रायः प्रशंसा, वचसा तद्भावनं संस्तव इति । प्रत्येकं प्रकरणादगार्यवधारणमिति चेन्न, सम्यग्दृष्टिग्रहणस्योभयार्थत्वात् । सत्यप्यगारिप्रकरणे नागारिण एव सम्यग्दृष्टरितीष्टमवधारणं । सामान्यतः सम्यग्दृष्टाधिकारेपि पुनरिह सम्यग्दृष्टिग्रहणस्यागार्थनगार संबंधनार्थत्वात् । एतेनानगारस्यैवेत्यवधारणमपास्तं, उत्तरत्रागा रिग्रहणानुवृत्तेः । दर्शनमोहोदयादतिचरणमतीचारः तत्त्वार्थश्रद्धानातिक्रमणमित्यर्थः । ननु च न पंचातिचारवचनं युक्तमष्टांगत्वात् सम्यग्दर्शनस्यातिक्रमणानां तावत्वमिति चेन्न, अत्रैवांतर्भावात् निःशंकितत्वाद्यष्टांगविपरीताचाराणामष्टविधत्वप्रसंगे त्रयाणां वात्सल्यादिविपरीतानामवात्सल्यादीनामन्यदृष्टिप्रशंसादिना सजातीयानां तत्रैवांतर्भावात् । त्रताद्यतीचाराणां पंचसंख्याव्याख्यानप्रकाराणामपि पंच संख्याभिधानात् । कुतः पुनरमी दर्शनस्यातिचारा इत्याहसम्यग्टटेरतीचाराः पंच शंकादयः स्मृताः । तेषु सत्सु हि तत्त्वार्थश्रद्धानं न विशुद्ध्यति ॥ १ ॥ शंकादयः सद्दर्शनस्यातीचारा एव मालिन्यहेतुत्वात् ये तु न तस्यातीचारा न ते तन्मालिन्यहेतवो Jain Education International 3 For Private & Personal Use Only ---- L www.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522