Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 474
________________ सप्तमोऽध्यायः । ४६५ तिकस्य करणायोगात् । तर्हि तनुस्थित्यर्थमाहारग्रहणं यतेस्तनुमूर्छाकारणक्षमं युक्तमेवेति चेन्न, रत्नत्रयाराधननिबंधनस्यैवोपगमात् । तद्विराधन हेतोस्तस्याप्यनिष्टः । न हि नवकोटिविशुद्धमाहारं भैक्ष्यशुद्ध्यनुसारितया गृह्णन् मुनिर्जातुचिद्रलत्रय विराधनविधायी, ततो न किंचित्पदार्थग्रहणं कस्यचिन्मूर्छाविरहे संभवतीति सर्वः परिग्रहः प्रमत्तस्यैवाब्रह्मवत् ॥ अथैतेभ्यो हिंसादिभ्यो विरतिर्ब्रतमिति निश्चितं तदभिसंबंधातु यो व्रती स कीदृश इत्याहनिःशल्यो व्रती ॥ १८ ॥ अनेकधा प्राणिगणशरणाच्छत्यं बाधाकरत्वादुपचारसिद्धिः । त्रिविधं मायानिदानमिथ्यादर्शनभेदात् । कश्चिदाह-विरोधाद्विशेषणानुपपत्तिः, मिथ्यादर्शनादिनिवृत्तेत्रेतित्वाभावात् सद्दर्शनादित्वसिद्धेर्व्रताभिसंबंधादेव तत्वघटनात् । विरुद्धं प्रतित्वस्य निःशल्यत्वं विशेषणं दंडित्वस्य चक्रित्वविशेषणवत् । तदविरुद्धेपि विशेषणस्यानर्थक्यं वान्यतरेण गतार्थत्वात् । निःशल्य इत्यनेनैव त्रतित्वसिद्धिर्ब्रतिग्रहणस्यानर्थक्यं व्रतीति वचनादेव निःशल्यत्वसिद्धेस्तद्वचनानर्थक्यवत् । विकल्प इति चेन्न, फलविशेषाभावात् निःशल्य इति वा व्रतीति वा स्यादिति, विकल्पे हि न किंचित्फलमुपलभामहे । न च व्यपदेशद्वयमात्रमेव फलं । संशयनिवृत्तिः फलमित्यपि न सम्यक्, तदविनाभावादेव संशयनिवृत्तेर्विपर्ययानध्यवसायनिवृत्तिवदिति । अत्राभिधीयते न वांगांगिभावस्य विवक्षितत्वात् । निःशल्यत्रतित्वयोर्ह्यत्रांगांगिभावो विवक्षितः । प्रधानविधानादप्रधानस्य । प्रधानं हि त्रतित्वमंगि तन्निः शल्यत्वमप्रधानमंगभूतमनुविधत्ते, यत्र व्रतित्वं तत्रावश्यं भवतीति न तस्य तेन विरोधेनापि विशेषणं तदनर्थकं न विकल्पोपगमो न च फलविशेषाभावोपि प्रधानगुणदर्शनेन मतांतरव्यवच्छेदस्य फलस्य सिद्धेः । तेन कृतनिदानस्यापि मायाविनो मिथ्यादृष्टेच हिंसादिभ्यो विरतावपि व्रतित्वाभावः सिद्धः । मायानिदान मिथ्यादर्शन र हितस्यापि चासंयतसम्यग्दृष्टेर्व्रतित्वाभावः प्रतिपादितः स्यात् । ततः ॥ निःशल्योत्र व्रती ज्ञेयः शल्यानि त्रीणि तत्त्वतः । मिथ्यात्वादीनि सद्भावे व्रताशय विपर्ययः ॥ १ सनी सागार एवानगार एवेत्येकांतापाकृतये सूत्रकारः प्राह ; अगार्यनगार ॥ १९ ॥ प्रतिश्रयार्थितयांगनादगारं । अनियमप्रसंग इति चेन्न, भावागारस्य विवक्षितत्वात् तदस्यास्तीत्यगारी । व्रतीत्यभिसंबंधः । व्रतिकारणासाकल्याद्गृहस्थस्यानतित्वमिति चेन्न, नैगमसंग्रहव्यवहारव्यापारान्नगरवासवद्राजवद्वा ! नैगमव्यापाराद्धि देशतो विरतः सर्वतो विरतिं प्रत्यभिमुख संकल्पो व्रती व्यपदिश्यते नगरवासत्वराजत्वाभिमुखस्य नगरवासराजव्यपदेशवत् । संग्रहनयाद्वाणुत्रतमहा व्यक्तिवर्तित्रतत्वसामान्यादेशादणुव्रतोपि व्रतीप्यते नगरैकदेशवासिनो नगरवासव्यपदेशवत् देशविषयराजस्यापि राजव्यपदेशवच्च व्यवहारनयाद्देशतो व्रत्यप्यगारी व्रतीति प्रतिपाद्यते तद्वदेवेत्यविरोधः ॥ न विद्यते अगारमस्येत्यनगारः स च व्रती सकलव्रतकारणसद्भावात् । ततो अग्रहस्थ एव त्रतीत्येकांतोप्यपास्तः ॥ नन्वेवमनगारस्य पथिकादेः प्रतित्वं स्यादित्याशंकामपासन्नाहसोप्यगार्यनगारश्च भावागारस्य भावतः । अभावाच्चेति पांथादेर्नानगारत्वसंभवः ॥ १ ॥ कः पुनरगारीत्याह;— ५९ Jain Education International - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522