Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 467
________________ CGDST अथ सप्तमोऽध्यायः ॥ ७॥ हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥ १॥ हिंसादयो निर्देक्ष्यमाणलक्षणाः, विरमणं विरतिः, व्रतमहिंसादिकृतो नियमः । हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्य इत्यपादाननिर्देशः । ध्रुवत्वाभावात्तदनुपपत्तिरिति चेन्न, बुद्ध्यपायाद्धृवत्वविवक्षोपपत्तेः । अहिंसायाः प्रधानत्वादादौ तद्वचनं, इतरेषां तत्परिपालनार्थत्वात् । विषयभेदाद्विरतिभेदे तद्बहुत्वप्रसंग इति चेन्न वा, तद्विषयविरमणसामान्योपादानात् । तदेवं हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतमिति युक्तोऽयं सूत्रनिर्देशः । नन्विह हिंसादिनिवृत्तिवचनं निरर्थकं संवरांतर्भावात् , धर्माभ्यंतरत्वात् तत्प्रपंचार्थ उपन्यास इति चेन्न, तत्रैव करणात् । संवरप्रपंचो हि स संवराध्याये कर्तव्यो न पुनरिहास्रवाध्यायेतिप्रसंगादिति कश्चित् । तं प्रत्युच्यते-न संवरो व्रतानि, परिस्पंददर्शनात् गुप्त्यादिसंवरपरिकर्मत्वाच्च । ननु पंचसु व्रतेष्वनंत वादिह रात्रिभोजनविरत्युपसंख्यानमिति चेन्न, भावनांतर्भावात् । तत्रानिर्देशादयुक्तोंतर्भाव इति चेन्न, आलोकितपानभोजनस्य वचनात् । प्रदीपादिसंभवे सति रात्रावपि तत्प्रसंग इति चेन्न, अनेकारंभदोषात् । परकृतप्रदीपादिसंभवे तदभाव इति चेन्न, चंक्रमणाद्यसंभवात् । दिवानीतस्य रात्रौ भोजनप्रसंग इति चेन्न, उक्तोत्तरत्वात् स्फुटार्थाभिव्यक्तेश्च दिवा भोजनमेव युक्तं, तेनालोकितपानभोजनाख्या भावना रात्रिभोजनविरतिरेवेति नासावुपसंख्येया । किं पुनरनेन व्रतलक्षणेन व्युदस्तमित्याह अथ पुण्यास्रवः प्रोक्तः प्राग्वतं विरतिश्च तत् । हिंसादिभ्य इति ध्वस्तं गुणेभ्यो विरतिव्रतम्॥१ विरतिव्रतमित्युच्यमाने सम्यक्त्वादिगुणेभ्योपि विरतिव्रतमनुषक्तं तदत्र हिंसादिभ्य इति वचनात् प्रध्वस्तं बोद्धव्यं । ततो यः पुण्यासवः प्रागभिहितः शुभः पुण्यस्येति वचनात् संक्षेपत इति सर्वस्तमेव प्रदर्शनार्थोयमध्यायस्तत्प्रपंचस्यैवात्र सूत्रितत्वादिति प्रतिपत्तव्यं ॥ । व्रतिष्वनुकंपा सद्वेद्यस्यास्रव इति प्रागुक्तं, तत्र के वतिनो येषां व्रतेनाभिसंबंधः ? किं ततमिति प्रश्नेन प्रतिपादनार्थोयमारंभः प्रतीयताम् ; देशसर्वतोऽणुमहती ॥२॥ कुतश्चिद्दिश्यत इति देशः, सरत्यशेषानवयवानिति सर्व, ततो देशसर्वतो हिंसादिभ्यो विरती अणुमहती व्रते भवत इति सूत्रार्थः । कथं व्रते इति ? पूर्वसूत्रस्यानुवृत्तेरर्थवशाद्विभक्तिपरिणामेनाभिसंबंधोपपत्तेः । तत इदमुच्यते देशतोणुव्रतं चेह सर्वतस्तु महद्वतं । देशसर्वविशुद्धात्मभेदात् संज्ञानिनो मतं ॥१॥ न हि मिथ्यादृशो हिंसादिभ्यो विरतिव्रतं, तस्य बालतपोव्यपदेशात् सम्यग्ज्ञानवत एव नु तेभ्यो विरतिर्देशतोणुव्रतं सर्वतस्तेभ्यो विरतिर्महाव्रतमिति प्रत्ययं । देशविशुद्धिस्वभावभेदात्तदेकमपि व्रतं द्वेधा भिद्यत इत्यर्थः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522