Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 470
________________ सप्तमोऽध्यायः। ४६१ कारुण्यं च समस्तेषु संसारक्लेशभागिषु । माध्यस्थ्य वीतरागाणां न कचिद्विनिधीयते ॥३॥ भव्यत्वं गुणमालोक्य प्रमोदाखिलदेहिषु । कर्तव्य इति तत्रायं विभागो मुख्यरूपतः ॥४॥ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥ १२ ॥ भावयितव्यो व्रतस्थैर्यार्थमिति शेषः । संवेगवैराग्ये हि व्रतस्थैर्यस्य हेतू , जगत्कायखभावभावनं संवेगवैराग्यार्थमिति परंपरया तस्य तदर्थसिद्धिः । जगत्कायशब्दावुक्तार्थो खेनात्मना भवनं खभावः, जगकाययोः खभावाविति वैराग्याथै ग्राह्यं । संसाराद्भीरुता संवेगः, रागकारणभावाद्विषयेभ्यो विरंजनं विरागः तस्य भावो वैराग्यं, संवेगवैराग्याभ्यां संवेगवैराग्यार्थमिति द्वयोः प्रत्येकमुभथार्थत्वं प्रत्येतव्यं ॥ केषां पुनः संवेगवैराग्याथै जगत्कायस्वभावभावने कुतो वा भवत इत्याहजगत्कायस्वभावौ वा भावने भावितात्मनां । संवेगाय विरक्त्यर्थं तत्त्वतस्तत्प्रबोधतः ॥१॥ तत्त्वतो जगत्कायखभावाभावबोधवादिनां तु तद्भावनातो नाभिप्रेतार्थसिद्धिरित्याह;भावना कल्पनामात्रं येषामर्थानपेक्षया । तेषां नार्थस्ततोऽनिष्टकल्पनात इवेप्सितम् ॥२॥ अनंतानंततत्त्वस्य कश्चिदर्थेषु भाव्यते । सन्नेवेति यथार्थैव भावना नो व्यवस्थिता ॥३॥ ततो यथा वितथसकलभावनाः प्रतिपन्नव्रतस्थैर्यहेतवस्तत्प्रतिपक्षस्वीकारनिराकरणहेतुत्वात्सम्यक् सूत्रिताः प्रतिपत्तव्याः ॥ अथ के हिंसादयो येभ्यो विरतिव्रतमित्युक्तमिति शंकायां हिंसां तावदाह; प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥ १३ ॥ अनभिगृहीतप्रचारविशेषः प्रमत्तः अभ्यंतरीभूतेवार्थो वा पंचदशप्रमादपरिणतो वा, योगशब्दः संबंधपर्यायवचनः, कायवाङ्मनःकर्म वा; तेन प्रमत्तसंबंधात् प्रमत्तकायादिकर्मणो वा प्राणव्यपरोपणं हिंसेति सूत्रितं भवति । किं पुनर्व्यपरोपणं? वियोगकरणं प्राणानां व्यपरोपणं प्राणव्यपरोपणं प्राणग्रहणं तत्पूर्वकत्वात् प्राणिव्यपरोपणस्य । सामर्थ्यतः सिद्धेः प्राणस्य प्राणिभ्योन्यत्वादधर्माभाव इति चेन्न, तद्दुःखोत्पादकत्वात् प्राणव्यपरोपणस्य । प्राणानां व्यपरोपणे ततः शरीरिणोऽन्यत्वादुःखाभाव इति चेन्न, इष्टपुत्रकलत्रादिवियोगे तापदर्शनात् । तेनान्यत्वस्य व्यभिचारात् प्राणप्राणिनोर्बधं प्रत्येकत्वाच्च सर्वथान्यत्वमसिद्धमिति न दुःखाभावसंभवः । शरीरिणः साधयतो यतो हिंसा न स्यात् । एकांतवादिनां तदनुपपत्तिः संबंधाभावात् । प्राणप्राणिनोः संयोगविशेषसंबंध इति चेत् , कुतस्तत्सांतरसंयोगाद्विशेषः? तददृष्टविशेषादिति चेत् , तस्याप्यात्मनोन्यत्वे कुतः प्रतिनियतात्मना व्यपदेशः । तत्र समवायादिति चेत् , सर्वात्मसु कस्मान्न तत्समवायः? प्रतिनियतात्मनि धर्माधर्मयोः फलानुभवनात्तत्रैव समवायो न सर्वात्मखिति चेत् , तदेव सर्वात्मसु किं न स्यात् ? सर्वात्मशरीरेष्वभावादिति चेन्न, शरीरस्यापि प्रतिनियतात्मखाभाविकत्वायोगात् सर्वात्मसाधारणत्वात् । यददृष्टविशेषेण कृतं यच्छरीरं तत्तस्यैवेति चेत् , तीदृष्टस्यापि ततोन्यतैवेत्येकांते कुतः प्रतिनियतात्मना व्यपदेश इति स एव पर्यनुयोगश्चक्रकं च । ततः सुदूरमपि गत्वा यत्रात्मनि भावादृष्टं कथंचित्तादात्म्येन स्थितं तस्य तत्कृतं द्रव्यादृष्टं पौद्गलिकं कर्म व्यपदिश्यते । तत्कृतं च शरीरं प्राणात्मकं तव्यपदेशमर्हति पुत्रकलत्रादिवदेवेति स्याद्वादिनामेव प्राणव्यपरोपणे प्राणिनो व्यपरोपणं दुःखोत्पत्तेर्युक्तं न पुनरेकांतवादिनां योगानां संख्यादिवत् । ननु प्रमत्तयोग एव हिंसा तदभावे संयतात्मनो यतेः प्राणव्यपरोपणेपि हिंसानिष्टेरिति कश्चित् । प्राणव्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522